पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२९

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
( १० )

एतदनुरूप एव बटेश्वरसिद्धान्ते बटेश्वरेण स्वीयप्रकारोऽभिहितः । सिद्धान्तशेखरे सर्वत्र श्रीपतेः स्वकीयः प्रकारोऽल्पोवानेवास्ति ब्रह्मगुप्तोत- प्रकारा एवं छन्दोऽन्तरेण लिखिताः सन्ति' वराहोक्त पञ्चसिद्धान्तितिकायां त्रयो- दशभिरार्याभिरुक्तो वासिष्ठसिद्धान्तः पैतामहसिद्धान्तश्च वराहोक्त्यैव दूरभ्रष्टा विति तत्रापि ब्रह्मसिद्धान्तापेक्षया यत्किञ्चित् वासिष्ठसिद्धान्तः सूक्ष्मताभिधायि । तन्त्र परीक्षाध्याये--

लाटात् सूर्यशशाची मध्याविन्दूच्च चन्द्रपातौ च ।
कुजबुधशीघ्रबृहस्पति सितशीघ्रशनैश्चरान् मध्यान् ॥
युगजातवर्षं भगरणान् वासिष्ठाद्विजयनन्दिकृत पादात् ।
मन्दोच्च परिधिपातस्पष्टीकरण द्यमार्यभटात् ॥
श्रीषेरणेन गृहीत्वा रत्नोच्चयरोमकः कृतः पन्थाः ।
एतानेव गृहीत्वा वसिष्ठो विष्णुचन्द्रेण ॥

इति ब्रह्मगुप्तोवत्या वसिष्टसिद्धान्तरचयिता विष्णुचन्द्रनामक: करित्र- दासीत् । सम्भवतोऽयं विष्णुचन्द्र: प्राचीनं वसिष्ठसिद्धान्त संस्कृतवानिति 'एतानेव गृहीत्वा वासिष्ठो विष्णुचन्द्ररा' इत्युक्त्या स्फुटं भवति । परमयं ग्रन्थोऽधुना कुत्रापि नोपलभ्यते । एतस्यैव विष्णुचन्द्रस्य मतं यत्र तत्र श्रीगणायं- भटाभ्यां सह ब्रह्मगुप्तेन खण्डितम् ।


१. यथोदाहरणार्थ किञ्चित्प्रोच्यते । सिद्धान्तशेखरस्य सूर्यग्रहणाधिकारे ।

तिथ्यन्तात् स्थितिखण्डहीन सहितात् प्राग्वत्ततो लम्बनं
कुर्यात् प्रग्रहमोक्षयोः स्थितिदलं युक्तं विधायासकृत् ।
तन्मध्यग्रहगोत्यलम्बनभुवा बिश्लेषणानेहसा
मनमुतातिरपि तथा संमीलनोन्मीलने ॥
अधिकमृणयोराधं मध्यात्तथाऽन्त्य मिहात्मकं भवति
धनयोश्चाद्यं हीनं यदाऽधिकमन्तिमम्
नमनविवरेवं कुर्याद्वहीनमतोऽन्यथा स्थितिदल-
मृगस्वस्थे भेदे तदैवययुतं पुनः ॥

इति ब्रह्मगुप्तोत्तस्या-

प्राग्वल्लम्बनमसकृत् विष्यत्तात् स्थितिदलेन हीनयुतात् ।
अधिकोन तन्मध्याहणयोहनाधिक धनयोः ॥
यद्यधिक स्थित्यर्थं तदाऽन्त रेणान्यथोनमृणमेकम् ।
अन्यद्धनं तदेक्येनाधिकमेवं विमर्दार्धे ॥
(शेष पृष्ठ १६ पर)