पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२८

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
(९)

इत्युक्त्याइन्यान् सर्वान् सिद्धान्तानिन्दन्ति । ब्राह्मस्फुटसिद्धान्ते बहुषु स्थलेषु स्थौल्यं त्वस्त्येव तथापि बहवो विषया अत्र निवेशिताः सन्ति, तस्मा- सर्वश्रेष्ठो ब्राह्मस्फुटसिद्धान्तोऽस्तीतिकथने न काचिद्विप्रतिपत्तिः प्रतिभाति । कोऽध्याय 'छन्दश्चत्युत्तराध्यायः अस्ति यत्र लिखितानां श्लोकानां व्याख्यो- पपत्तिश्चाद्यावधि केनापि न कृता तेषु तादृशं काठिन्यमस्ति यदर्थो न मनसि समागच्छति, उपपत्तेश्च कथैव का?, प्रश्नाध्यायो यादृशोऽत्र ग्रन्थेऽस्ति न तादृशोऽन्येषु सिद्धान्तग्रन्थेषु । अत्र ग्रन्थे मध्यगत्यादीनां पञ्चाध्यायानां प्रश्न: सोत्तराः पृथक् पृथक् लिखिताः सन्ति । येषामभ्यासेन पाठका प्रतीन सिद्धान्त- ग्रन्थे निपुणा भवितुमर्हन्ति । सिद्धान्तशिरोमणेर्भ मिकायां 'जीवासाधनं विनैव यद्भुजज्यानयनं कृतवान् श्रीपतिस्तत्त्वपूर्वमेव स्यात् । यथा तत्प्रकारो विदां विनोदाय प्रदर्श्यते-

दोः कोटिभागरहिताभिहताः खनागचन्द्रास्तदीयचरणेन शरार्कदिग्भिः ।
ते व्यासखण्डगुरिता विहृताः फलं तु ज्याभिविनापि भवतो भुजकोटिजीवे ॥

इति केनापि लिखितमस्ति तन्नैव युक्तियुक्त यतो ज्याभिविना भुजकोटि- ज्ययोरानयनं ज्यातश्चापानयनं च सर्वप्रथमं ब्रह्मगुप्तेनैव कृतम् यथा तदुक्त- प्रकारः--

भुजकोट्य शोनगुणा भार्धांशास्तञ्चतुर्थभागोनैः ।
पञ्चद्वन्दुखचन्द्र विभाजिता व्यासदलगुरिणता ॥
तज्ज्ये परसफलज्या सङ्गुणिता तत्फले विना ज्याभिः ।
इष्टोच्चनीचवृत्तव्यासार्धं परमफलजीवा ॥
इष्टज्यातश्चापानयनञ्च
इष्टज्यासङ्गुणिताः पञ्चकयमलैकशून्यचन्द्रमसः ।
इष्टज्यापादयुतव्यासार्ध विभाजिता लब्धम् ॥
नवतिकृतेः प्रोह्यपदं नवते: संशोध्य शेषभागकलाः ।
एवं धनुरिष्टाया भवति ज्याया विना ज्याभिः ॥

१. चिरादेव प्रकारोऽयं श्रींपत्युक्तोऽस्तीति ज्योतिविदां मध्ये प्रसिद्धोऽस्ति । तथैव ज्यातश्चापानयनमपि । एतदवलम्ब्यैव ग्रहलाघवे करणग्रन्ये गणेशदेशेन बहवः प्रकारा विलिखिताः ।