पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२५

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
(६)

इति कमलाकरोत्तया स्वयं भगवान् सूर्य एवास्य रचयिता आश्चर्यम्य विषयोऽयमस्ति यदत्रा ( सूर्यसिद्धान्ते) यनांशानयनम् ।

'त्रिंशत्कृत्यो युगे भानां चक्र प्राक् परिलम्बते ।
तद्गुणाद्भूदिनैर्भक्ताद् धुगरणाद्यदवाप्यते ॥'
'तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः ।
तत्संस्कृताद् ग्रहात् कान्तिच्छाया चरदलादिकम् ॥'

इत्यनेन कृतमस्ति । परं ब्राह्मस्फुटसिद्धान्तनिर्मात्रा ब्रह्मगुप्तेन तस्व (अयनांशस्य) चर्चाsपि न कृता । कथं ब्रह्मगुप्तेन तच्चर्चा न कृतेति न ज्ञायते । सूर्य सिद्धान्तस्योदयास्ताधिकारे अभिजिद् ब्रह्महृदयं स्वातीवैष्णव वासवाः' इत्यादिना सदोदित नक्षत्राणि भगवता सूर्येण कथितानि सन्ति, अस्य श्लोकस्य सुधावर्षिणी टीकायां 'देशज्ञानं विना सदोदित नक्षत्राणां ज्ञानं न भवति निरक्ष च सौम्य ध्रुवोऽप्यदृश्योऽतः केनचिद्गोलानभिज्ञेनायं श्लोकः प्रक्षिप्त, इनि यल्लिखितमस्ति तत्समीचीनं नास्ति । पाताधिकारे पातस्थितिकालस्य फलं--

आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः ।
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥
एकायनगतं यावदर्केन्द्रोर्मंण्डलान्तरम् ।
सम्भवस्तावदेवास्य सर्वंकमँविनाशकृत् ॥
स्नानदानजपत्राद्धव्रतहोमादिकर्मभिः
प्राप्यते सुमहच्छ्रे यस्तत्कालज्ञानतस्तथा ॥

इत्यनेन पातस्थितिकालः सर्वकर्मविनाशकृदुक्तः | पातकाले स्नानदान- जपश्राद्धव्रतहोमादि कर्मभिमंहत्कल्याणं प्राप्यते लोकैरिति । तथा च--

रवीन्द्वोस्तुल्यता क्रान्त्योविषुवत्सन्निधो यदा ।
द्विर्भवेद्धि तदा पातः स्यादभावो विपर्ययात् ॥

इत्यनेनापूर्वविषयः कथितोऽर्थाद्रविगोलसन्धिसमीपे यदा रविचन्द्रयोः क्रान्तिसाम्यं भवेत्तदाऽल्पेनैव कालेन द्विवार: पात: स्यात् । यदा व्ययनसन्धि- समीपे क्रान्तिसाम्याभावस्तदा वहुकालपर्यन्त क्रान्ति साम्याभावः स्यादिति ।

ब्राह्मस्फुटसिद्धान्तेऽपि पातस्थितिकालफलं सूर्यसिद्धान्तोक्तवत्कथितम् । सिद्धान्तशेखरे कियत्कालपर्यन्तं पातफलमिति 'भानोबिम्बं तुहिनकिरणापक्रमे- कमार्गे यांवत्तावन्मुतिभिरुदित संभवस्तत्फलस्य तस्याभावे भवति नियतं