पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२३

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
(४)

पञ्चषष्टया वर्षेः क्रान्तिपातः प्राय एकमशं पश्चिम दिश्यपसरति तज्ज्ञानं स्वल्पकालेनासम्भव इवेति वेधविजेनापि ब्रह्मगुप्तेनायनचलने नोपलब्धमिति । आर्यभटविरोधी भूत्वापि ब्रह्मगुप्तो ब्राह्मस्फुटसिद्धान्तरचनानन्तरं सप्तत्रिंशत्तमे वर्षे खण्डखाद्यकं नामकरण ग्रन्थं रचितवान् यथा तत्प्रारम्भे--

प्रणिपत्य महादेवं जगदुत्पत्तिस्थितिप्रलयहेतुम् ।
वक्ष्यामि खण्डखाद्य कमाचार्यभटतुल्यफलम् ॥
प्रायेणार्यभटेन व्यवहारः प्रतिदिनं यतोऽशक्यः ।
उद्वाहजातकादिषु तत्समफललघुतरोक्तिरतः ॥

इति तदुक्तग्रन्थपर्यालोचनया ज्ञायते यत्सर्वत्र व्यवहारकृतां मानवानां मध्ये प्रचरितार्यभटमत निराकरणमतीव कठिनमासीदिति–'आर्यभटमतानुमानिव्यवहरतां तात्कालिकजनानामुपकारायैव व्यावहारिकः करणग्रन्थः खण्डखाद्यकानामको रचितो ब्रह्मगुप्तेन । यथोपलब्धेषु प्राचीनज्यौतिषसिद्धान्तग्रन्थेषु नाहास्फुटसिद्धान्त आदर्शरूपो ग्रन्थस्तथैव सर्वेषां करणग्नन्थानामादर्शरूपमादिम या इतस्त्रयोदशशतवः प्राचीनं खण्डखाद्यकं करणम् । अथ' 'ब्रह्माह्वयश्रीधरपद्मनाभबीजानि यस्मादति विस्तानि' इति बीजगणिते भास्करोक्त्या ज्ञायते यद्ब्रह्मगुप्तस्य विपुलो बीजगणित ग्रन्थ मासीत्परमयं ग्रन्थः कुत्रापि नोपलभ्यते न वा श्रूयते । ब्रह्मगुप्त एव सर्वापक्षया श्रीपतेरादर्श भूतः । ब्राह्मस्फुटसिद्धान्तसिद्धान्तशेखरयोः पर्यालोचनया ज्ञायते यद् ब्रह्मगुप्तोत्ता: संक्षिप्ता बहुलार्थयुक्ता आर्या एव बृहदाकारैश्छन्दोभिरनूदिताः श्रीपतिना। वस्तुतो ब्रह्मगुप्तोक्त ग्रहगणितं सूक्ष्मं ज्ञात्वा सत्यमित्र तदेव स्वीकुर्वन् श्रीपतिस्तदुक्तिवैषम्यं स्वसुन्दररचनाभिरपहरन् सुगमतरं ग्रन्थांतरं (सिद्धान्त शेखरं) चकार, नात्र केयामपि विप्रतिपत्तिः । ग्रन्थरचनासम्बन्धे श्रीपतेविशेषतो लल्लाचार्य एवादर्शः । ये केचन विषया ब्रह्मगुप्तेन न कथिता अथ लल्लेन कथितास्तान् सर्वानेव नियतमेव श्रीपतिः श्लोकान्तरेण तथैव कथितवान् । वस्तुतो द्वयोर्ग्रन्थयोः (ब्राह्मस्फुट सिद्धान्तशिष्यधीवृद्धिदयोः) परिशीलनं कृत्वा श्रीपतिना सिद्धान्तशेखरो रचितः । ब्राह्मस्फुट सिद्धान्ते येषामाचार्याणां नामानि समागतानि सन्ति तेषां सम्बन्धे किञ्चिद्विविच्यते । सर्वेषां सिद्धान्तानामादिमः सर्वेभ्यः प्राचीनो वा ब्रह्मसिद्धान्त एव, स एव कश्चित् पितामहसिद्धान्तनाम्नाप्युच्यते । पञ्चसिद्धान्तिकायां वराहमिहिरेण द्वादशोऽध्याय प्रापिञ्चात्मक: पैतामहसिद्धान्तः कथितो यथा-

रविशशिनोः अञ्चयुगं वर्षाणि पितामहोपदिष्टानि ।
अधिमासस्त्रिशभिर्मासैरवमस्तिषष्ट्याऽह्नाम् ॥