पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२०

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
भूमिका
ब्रह्मगुप्तकृतो ब्राह्मस्फुटसिद्धान्तः
श्री चापवंशतिलके श्रीव्याघ्रमुखे नृपे शकनृपाणाम् ।
पञ्चाशत्संयुक्तैर्वर्षशतैः पञ्चभिरतीतः ॥
ब्राह्मः स्फुटसिद्धान्तः सज्जनगरिणतज्ञगोलवित्प्रीत्यै ।
त्रिंशद्वर्षेण कृतो जिष्णुसुतब्रह्मगुप्तेन ॥

इति ब्राह्मस्फुटसिद्धान्तीयसंज्ञाध्याये आचार्योक्त्या ५२० शाकवर्षे-आचार्यस्य (ब्रह्मगुप्तस्य) जन्म समयस्ततः परं त्रिशति वर्षेषु गतेषु तेन ब्राह्मस्फुटसिद्धान्तसंज्ञको ज्यौतिषसिद्धान्तग्रन्थो विरचितः । गुर्जरदेशमध्ये भिनमाल नाम ग्राम एवास्य जन्मस्थानं बहूनां पाश्चात्यानां गवेषणया सिध्यति । गुर्जरदेशीयज्योतिर्विदां मुखकथातोऽपि भिल्लमालकोऽघुना भिनमालनाम्ना प्रसिद्धो ग्राम एवाचार्यस्य जन्मस्थानं सिध्यति । गुर्जरदेशोत्तरसीमायां मालव ( माड़वार) देशतो दक्षिणस्यां दिशि आबूपर्वतीनद्योर्मध्ये तत्पर्वताद्वायुकोणेऽयं भिनमालनामा ग्रामोऽधुना प्रसिद्धोऽस्ति ।

विष्णुधर्मोत्तरपुराणान्तर्गतं ब्रह्मसिद्धान्तमागमीकृत्य ब्राह्मस्फुट सिद्धान्तो ब्रह्मगुप्तेन विरचितः। नलिकादिवेघद्वारेण हरिणतैक्यकारि-ग्रहादि साधन- कारणाप्राचीनं ब्रह्मसिद्धान्तं संशोध्य नवीनं ब्राह्मस्फुटसिद्धान्तं रचितवान् ब्रह्मगुप्तः ।

ब्रह्मोक्तं ग्रहगणितं महता कालेन यत् खिलीभूतम् ।
अभिधीयते स्फुटं तज्जिष्णसुतब्रह्मगुप्तेन ॥
संसाध्य स्पष्टतरं बीजं नलिकादियन्त्रेभ्यः ॥
तत्संस्कृतग्रहेभ्यः कर्त्तव्यो निर्णयादेशौ ॥

इत्यायुक्त्या स्फुटं ज्ञायते । श्रस्य चतुर्वेदाचार्यपदककृता तिलकसंज्ञिका टीका प्रसिद्धाऽऽसीत् साऽधुना सम्पूर्ण सम्प्रति नोपलभ्यते । 'कोलबक' साहेबमहोदयैः सम्पुर्णा सा टीको ( पृथूदक कृता) पलब्धा तढलेनास्य ग्रन्थस्य द्वादशाष्टादशाध्याययोयंक्ताव्यक्तगणित संज्ञयोराङ्गलभाषायामनुवादः १७३९ शाकवर्षे


१. गुप्तपदान्ताद्वैश्यकुलोत्पन्नो रीवांनरेशस्य व्याघ्रभटेश्वरस्य प्रधानज्यौतिषिक आसीदयमिति बहूनां मतमस्ति ।