पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/७४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


कुट्टकाध्याय ११६५ स्थिरकुट्टकेन विकलादिशेषाद् गृहाहर्गणयोरानयनं ब्रह्मगुप्तेन भास्करा चार्येण चोक्त, प्राचीनैः प्राधान्येन विकलादिशेषादहर्गणानयनार्थमेव कुट्टकविधि रुक्तः । भास्कराचार्येण च लीलावत्यां ‘अस्य गणितस्य ग्रहगणिते महानुपयोग स्तदर्थ किञ्चिदुच्यते' इत्युक्त्वा तद्विधिश्च “कल्प्याथशुद्धिर्विफलावशेषं षष्टिश्च भाज्यः कुदिनानि हारः । तज्जं फलं स्युर्विकला गुणस्तु लिप्ताग्रमस्माच्च कलालवाग्रम् । एवं तदूध्वं च तथाधिमासावमाग्रकाभ्यां दिवसा रवीन्द्वोः ॥” विधिरुक्त: । ग्रहस्य विकलाशेषाद्ग्रहाहर्गणयोरानयनम् । तद्यथा । तत्र षष्टिभज्यः । कुदिनानि हारः । विकलावशेषं शुद्धिरिति प्रकल्प्य गुणलब्धी साध्ये तत्र लब्धिर्विकलाः स्युः । गुण कलाशेषम् । एवं कलावशेष शुद्धिः । षष्टिर्भाज्यः । कुदिनानि हारः । लब्धिः कलाः गुणो भाग (अंश) शेषम् । भागशेषं शुद्धिः । त्रिंशद्भाज्यः । कुदिनानि हारः फलं भागाः । गुणो राशिशेषम् । एवं राशिशेषं शुद्धिः । द्वादशभाज्यः । कुदिनानि हारः । फलं गतराशयः । गुणो भगणशेषम् । कल्पभगणा भाज्यः । कुदिनानि हारः । भगण शेषं शुद्धिः । फलं गतभगणाः । गुणोऽहर्गणः स्यात् । अहर्गणज्ञानेन ग्रहज्ञानं सुगम मेव । यद्यपि श्रीपतिना कुट्टकाध्यायेऽयं विषयो (विकलादि शेषाद्ग्रहाहर्गणयोरान यनं) नोक्तस्तथापि प्रश्नाध्याये-एतद्विषयक प्रश्नो विलिखितो यथा “यो राशिशे षादथ भागशेषाल्लिप्ताविलिप्तोद्भवशेषतो वा । अहोगतं तत्परशेषतोऽपि जानाति खेटं च स कुट्टकज्ञः ॥” अर्थात् भगणादि ग्रहानयने यो राशिशेषस्तस्मात् । भागशेषात् भगणादि ग्रहानयन एव योंऽशशेषस्तस्मात् । भगणादिगृहानयने कलाशेषाद्वि कलाशेषाद्वा । खेटं (गृहं) तत्परशेषतोऽपि कला विकलादीनां पष्टयशेषु मुहुर्वर्धि तेषु तत्परतोऽपि यः शेषस्तस्मादपि च यो गणको गतमहर्गणं जानाति स कुट्टकज्ञो स्तीति । अस्योपपत्तिः । कल्पकुदिनैः कल्पभगणा लभ्यन्ते तदाऽहर्गणेन किमिति त्रैरा शिकेनाऽभीष्टदिने भगणादिगृहानयनं क्रियते । तत्र पूर्वोक्तानुपातेन लब्धा भगणाऽव शिष्ट भगणशेषम् । तच्च भगणशेषं द्वादशगुणं कल्पकुदिनैर्भक्त लब्धा राशयः । शेष राशिशेषं भवति । पुना राशिशेषं त्रिंशद्गुणितं कल्पकुदिनैर्भक्त लब्धा अंशाः शेषं चांशशेष भवति । तदंशशेषं षष्ट्या गुणितं कल्पकुदिनैर्भक्त लब्धाः कलाः शेषं च कलाशेषम् । कलाशेषमपि षष्ट्या गुणितं कल्पकुदिनैर्भक्त लब्धा विकला भवन्ति शेषं विकलाशेषमिति भगणादिशेषाणां परिभाषा । अतोऽत्रराश्यादिशेषात् गृहानयने कुट्टकगणितानुसारेण सम्भवे सति भाज्यहारक्षेपाः केनाप्यङ्कनापवत्त नीयाः । ततः पूर्वकथितरीत्या कलाशेषस्य गुणकः षष्टिः हारो दृढ़कुदिनानि । अथ येन गुणकेन गुणितश्छेदो विकलाशेषयुतः स्वगुणकेन षष्ट्या भक्तो निः शेषो भवति स गुणको गृहविकला भवन्ति फलं च कलांशेषम् । एवं कलाशेषात् कला अंशशेषं च भवति । एवमन्ते भगणशेषज्ञानं भवेत् तस्मादहर्गणज्ञानं च भवति ।