पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानाध्यायः १५०१ चाहियेतथा जन्म-मरण सम्बन्धी अशौच, चिकित्सा-चान्द्रायणादि का निर्णय, मासपति और वर्षपति का ज्ञान, ग्रहों की मध्यमा गति ये सब सावनमान से ग्रहण करनी चाहिये, यह सूर्यसिद्धान्तकार कहता है इति ॥३-४॥ इदानीं नक्षत्रसावनप्रशंसासाह । नक्षत्रसावनदिनात् सूर्यादीनां स्वसावनदिनानि । यस्मात् तस्मादाचें दुरधिगसं मन्दबुद्धीनाम् ॥५॥ सु. भा–यस्मात् सूर्यादीनां स्वस्वसावनदिनानि नक्षत्रसावनदिनादेव सिद्धानि भवन्ति(भभ्रमास्तु भगणैविवजिता यस्य तस्य कुदिनानि तानि वा'-इति भास्करोत्तया स्फुटम्) । तस्मान्मन्दबुद्धीनां मध्ये ह्याचें मानं दुरधिगममतीव कठिनमित्यर्थः । तदेव सूक्ष्मं विवेचनीयमन्यथा ग्रहासावनानि न भवन्तीत्याचार्या- शयः ॥५॥ वि. भा-–यस्मात् कारणात् सूर्यादीनां ग्रहाणां स्वस्वसावनदिनानि नक्षत्रसावनदिनादेव सिध्यन्ति, तस्मात् कारणान्मन्दबुद्धीनां मध्ये हि आर्भ नाक्षत्र) मानं दुरंधिगमम् (अति कठिनं) । तदेव सूक्ष्म विचारणीयमन्यथा ग्रहसावनानि समीचीनानि न भवन्तीति । ग्रहाणां सावनदिनानि नक्षत्रसावन- दिनादेव सिध्यन्ति, सूर्यसिद्धान्ते ‘भोदया भगणैः स्वैः स्वैरूनाः स्वस्वोदया युगे’ इत्युक्तेः। सिद्धान्तशेखरे “यस्य यस्य भगणैर्विवजिता ज्योतिषां भगणसंहतिः स्फुटम् । तस्य तस्य दिवसांस्तु सावनान् विद्धि तामरसजन्मनो दिने ।’ इत्यनेन श्रीपतिना ग्रहसावनदिनानयनमुक्त वा पुनरग्रे ‘भभ्रमोष्णकरमण्ड लान्तरं सावनानि कुदिनानि तानि वा' ऽस्य प्रतिपादनं कृतमित्यनेन नक्षत्रसावनेन बहूनि प्रयोजनानि सन्तीति सूच्यते । तेनैव हेतुनाऽऽचार्येणाप्य ‘तस्मादाक्षी दुरधिगमं मन्दबुद्धीनाम्नेन नक्षत्रसावनसम्बन्धे तस्यातीवोपयोगित्वं प्रतिपादितम् । सिद्धान्तशेखरे ‘नाक्षत्रमानाघटिकादिकालःइत्यनेन श्रीपतिना नाक्षत्रेण प्रयोजनं कथितमर्थात्-अनेन ग्रहेणास्मिन्नक्षत्रे इयत्यो घटिका भुक्ता इति ज्ञानं नाक्षत्रमाने नैव सिध्यति । सूर्य सिद्धान्ते "भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते । नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः। कातिक्यादिषु संयोगे कृत्तिकादिद्वयं द्वयम् । अन्त्योपान्त्य पञ्चमश्च त्रिधा मासत्रयं स्मृत । मित्युक्तम् । अस्यार्थी नित्यं प्रवहवायुना भचक्रस्यैकं भ्रमणं यद् भवति तदेव नाक्षत्र दिनमुच्यते