यन्त्राध्यायः
१४८१
सु० भा०-एक इष्टप्रमाणो नेलको मूले विद्धः कार्यः। स च जलैः
पूर्णाः कार्यः। अधोरन्भैण यावतीभिर्घटीभिर्जलम्नतिः स्यात् ताः तु तिघटिका
ज्ञातव्याः । नलकस्य समुच्ष्ट्रायस्तत्स्रतिघटिकोद्धतस्तैर्लब्धाङ्ग , लैनॅलके चैकैको
विभागोऽङ्कनीयः । अत एभ्यो विभागेम्यो नाडिका क्रिया यन्त्र सिद्धिर्भवति ।
नाडिकाक्रियया यन्त्रसिद्धिर्भवतीत्यर्थः। एकविभागपर्यन्तं जलनुत्यैका घटी
द्वितीयभागपर्यंतं जलस्र,त्या घटीद्वयम्। एवमत्र कालज्ञानं भवति ।
अत्रोपपत्तिः। यदि स्र तिघटिकाभिर्नलकोच्छुितिसमा जलस्तृति-
स्तदैकया घटथा कि जातैकघटी समकालजलम् तावुच्छुितिरिति ।n४६॥ ।
वि. भा.-एक इष्टप्रमाणो नलको ग्राह्यस्तन्मूले विद्धः कार्यः । स जलैः
पूर्णः कार्यः। अधोरन्ज़ेण यावतीभिघंटीभिर्जलम्नतिः स्यात् ताः तु तिघटिका
बोद्धव्याः । तत्तु तिघटिकया नलकोट्टायोभक्तं लंब्धांगुलैर्नेलके एकैको विभागश्चि
न्हितः कार्यः। अत एभ्यो विभागेभ्यो नाड़िकाक्रियया यन्त्रसिद्धिर्भवत्यर्थादेक
चिन्हपर्यन्तं जलस्रत्येका घटिका, द्वितीयचिन्हपर्यन्तं जलस्र त्या घटिकाद्वयम् ।
एवमग्रे ऽपि, अनया रीत्यात्र कालज्ञानं भवतीति ।
यदि जलस्र तिघटिकाभिर्नलकोच्छुितितुल्या जलस्र तिर्लभ्यते तदेकया
घटया कि जातंकघटीतुल्यकालजनितस्तु तानुच्छुितिरिति । सिद्धान्तशेखरे
श्रीपतिनैतद्भिन्नमेव यन्त्रान्तरं कालज्ञानार्थं कथ्यते यथा
“नीरनु त्या चिन्हिते नाड़िकाञ्चमूलच्छिद्रवारिपूर्णे च पात्रे ।
गोलं तुम्बं पारताढ्यं गुणेन बद्ध केन प्रक्षिपेत्तत्र युक्तं ।
यथा यथाऽम्बु स्रवति क्रमेण तथा तथाऽधो ब्रजदत्र तुम्बम् ।
गोलं परिभ्रामयति स्वयं तव सूर्यांशभुजान्तरगास्तु नाडयः ।”
अस्यार्थः-मूलच्छिद्र (अघोरन्ध्रवति) वारिपूर्णं पात्रे (जलपूर्णं कांस्या
दिभाजने) नीरनु त्या (जलप्रस्रवणेन) नाड़िकाङ्कः (घटीपलविपलार्धेः) चिन्हिते
पारतसहितं गोलं तुम्बं (वर्तुलाकारमलावु) तत्र जलपूर्णपात्रे गुणेन (रश्मिभिः)
बद्ध, केन (जलेन) युक्ते प्रक्षिपेत् । अम् (तद्भाजनजलं) यथा यथा स्रवति
(प्रस्रवितं भवति) तथा तथा अत्र अधो ब्रजत् तुम्बं स्वयं (अनन्यसापेको) गोलं
परिभ्रामयति । तत्र सयशभुजान्तरगाः -क्रान्तिवृत्ते यस्मिन्न शे सूर्यो वर्तते तस्य
क्षितिजवृत्तस्य चान्तरे गता नाड्यो भवन्ति । अत्र लल्लोक्तम्
जलकुण्डेऽधछिद्र घटिकाकालाङ्किते जलस्र त्या ।
गोले वेष्टनसूत्राग्रबढतुम्बं क्षिपेत् सरसम् ॥
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३९२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
