पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३८३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१४७२ सु. भा.-शंकुयन्त्रे छायाँ दृग्ज्यां दृष्टि छायाग्रशंक्वग्रसूत्रं छायाकर्ण शंकुमवलम्बकं प्रकल्प्य यष्टियुक्त यष्टियन्त्रोक्त घटिकादिसर्वं योज्यम् । यष्टि यन्त्रात् सर्वं यथा साधितं तथाऽस्मादपि साधनीयमित्यर्थः ।।४०।। वि-भा-शंकुयन्त्रे छायां दृग्ज्यां दृष्टि छायाग्रशक्वग्रगत सूत्र छायाकर्ण शंकुमवलम्बकं प्रकल्प्य यष्टियन्त्रोक्त घटिकादिसर्वं योज्यमर्थाद्यष्टियन्त्राद्यथा सर्व साधितं तथाऽस्मादपि साधनीयमिति ॥४० अब शंकृयन्त्र से कालज्ञान को कहते हैं । हि. भा.-शंकुयन्त्र में छाया को दृग्ज्या, दृष्टि (छायाग्रशक्वग्रगतसूत्र) को छाया क्रणं, शंकु को अबलम्वसूत्र कल्पना कर यष्टि यन्त्र में कथित घटिकादि सब साधन करना चाहिये अर्थात् यष्टि यन्त्र से जैसे सब कुछ साधन किया गया है वैसे इससे भी साधन करना चाहिये इति ।।४०।। इदानीं घटीयन्त्रमाह । कलशार्वाकृति ताम्रम् पात्रं तलेऽपृथुच्छिन्नम् । मध्ये तज्जलमज्जनषष्टया द्युनिशं यथा भवति ॥४१॥ सु. भा.-ताम्र ताम्रभवं पात्रं कलसार्धाकृतिघटार्धप्रतिमं घटिका घटीयन्त्रं भवति । अस्य पुत्रस्य तले मध्ये तथाऽपृथुच्छिद्र कार्यं यथा यज्जलमज्जनषष्टया द्युनिशमहोरात्रमानं भवति । एवमेकनिमज्जनेनैका घटी भवतीति सर्वं स्फुटम् ।।४१॥ वि. भा.-ताम्रभवं पात्रं घटार्धानुकारं घटिका (घटी यन्त्रं) भवति । अस्य ताम्रपात्रस्य तले तथा ऽपृथु (लघु) च्छिद्र कार्यं तथा तज्जलमज्जनषष्टया ऽहोरात्रमानं भवति-अर्थादेकनिमज्जनेनैका घटी भवतीति । सिद्धान्तशेखरे शुल्बस्य दिभेिवहितं षडङगुलोच्चं द्विगुणांयतास्यम् । पलंयंत तदम्भसा षष्टिपलैः प्रपूर्य पात्र घटार्धप्रमितं घटी स्यात् । सत्यंशमाषत्रय निमिता या हेम्न: शलाका चतुरङ ,गुला स्यात्। विद्ध ' तया प्राक्तनमत्र पात्र प्रपूर्यते नाड़िकयाऽम्बुना तव ।" श्रीपतिनैवमुच्यते । अस्यायमर्थः--शुल्बस्य ताम्रस्य) दिग्भिः (दशभिः) प्रश्न-"पैश्चतुभिश्चपलं तुलाज्ञा” इति भास्करोक्तचा चत्वारिंशद्भिः कणैः । विहितं (निमित)षड़ङ्गुलोच्छ्ायम्, (द्वादशाङ्गुलदीर्घमुखम्), घटार्श्वप्रमितं (कलशार्धरूपम्) अम्भसा (जलेन) षष्टिपलैः पूर्णं यत्पात्रमर्थाज्जलपात्र निक्षिप्तं सत् -एकघटचा