पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४७० ब्राह्मस्फुटसिद्धान्ते =वास्तव गृहान्तरांश, गृहाग्ररूपग्रह का दृष्टान्तर (दृष्टि संज्ञतुल्य) दृग्ज्या होती है, आचार्य का यह खण्डन ठीक नहीं है इति ।३८।। इदानीं शंकुमाह। मूले द्वघड,गुल विपुलः सूच्यग्रो द्वादशाङगुलोच्ह्वायः । शंकुस्तलाग्रविद्धोऽग्रवेधलम्बादृजुर्जेयः ॥३॥ सु. भूम -(शकुस्तलाग्रविद्धोऽग्रवेधलम्बादृजुसँयः ।३९॥ । अग्रवेधलम्बादग्ररन्ध्रगतावलम्वादृजुर्लम्बाकारो ज्ञेयः। तलादाधारवृत्तकेन्द्रादग्रपर्यन्तं विद्धः सरन्ध्र इत्यर्थः। शेषं स्पष्टार्थो ।।३८॥ वि. भा.-मूले (तले) द्वयङ्गुलपिण्डःअग्र सूच्याकारः । द्वादशाङ्गुल मुच्छुितिः । अग्रवेधलम्बात् (अग्ररन्ध्रगतावलम्बात्) ऋजुः (सरलाकारो लम्बा- कारो वा), तलाग्रविद्धः (आधारवृत्तकेन्द्रादग्रपर्यन्तं विद्धः सरन्ध्र इतिः) शंकुङ्यः । सिद्धान्त शेखरे । "भ्रमविरचितवृत्तस्तुल्यमूलाग्रभागो द्विरदरदन जन्मा सारदारूद्भवो वा । गुरु ऋजुरवलम्बादव्रणः षट्कवृत्तः समतल इह शस्तः शंकुरकङगुलः स्यात् । “ अस्यार्थ –भ्रमेण (शाणेन) विरचितं कृतं वृत्तं यस्मिन् सः। अत एव तुल्यमूलाग्रभागः ( समानो मूलभागोऽग्रभागश्च यस्य सः ) घर्षण शिलया तथा धृष्टो यथा सर्वत्रैव कृतानां वृत्तानां परिधयस्तुल्या भवेयुः। गजदन्तसम्भवः । वा सारवत्काष्ठेन निर्मितः । गुरुः (अलघुतौल्यः)। अवलम्ब सूत्रतः सरलाकारः । प्रणरहितः । षड्वृत्तसहितः । समतलः (समीकृतस्तल भागो यस्य), द्वादशाङगुलप्रमाणः । इह यत्रोपयोगे एतादृशः शंकुः प्रशस्तः स्यात् । ज्योतिषसिद्धान्ते दिग्देशकालज्ञानार्थं सर्वत्रैव शंकुरुपयोगित्वेन प्रसिद्धोऽस्ति । परं स कीदृशो निर्मापयितव्यस्तदेवानेन श्लोफेन श्रीपतिना कथ्यते, अतः कथित बक्षणयुक्तः शंकुरेव प्रशस्तस्तद्भिन्नश्चाशोभन इति । अत्र लल्लोक्तम् "भ्रमसिद्धः सममूलाग्रपरिघिरतिसुगुरुसारदारुमयः। रज्जुव्रणराजिलाञ्छनस्तथा च समतलः शंकुः ।।” इति लल्लोक्तमेव श्रीपतिना छन्दोऽन्तरेणोक्तमिति स्फुटमेव विदुषाम्। भास्कराचायऽपि "समतलमस्तकपरिधिभ्रमसिद्धो दन्तिदन्तजः शंकुः । तच्छायातः प्रोक्त ज्ञानं दिग्देशकालानाम् ॥“