पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः १४०६ इदानीं दृग्गोलस्य दृश्यादृश्यत्वं लम्बनावनत्युत्पत्तौ कारणं चाह । दृश्यादृश्यं दृग्गोलाषं भूव्यासदलविहीनयुतम् । द्रष्टा भूगोलोपरि यतस्ततो लस्बनावनती ॥६४। सु. भा–दृग्गोलार्ध दृग्मण्डलार्ध भूव्यासदलेन विहीनं कुपृष्ठगानां दृश्यं खण्डं भूव्यासदलेन युतं चादृश्यखण्डं भवति । यतो द्रष्टा भूगोलोपरि भूपृष्ठे तिष्ठति ततस्तस्माल्लम्बनावनती भवतः । कुपृष्ठगानां कुदलेन हीनं'-इत्यादि तथा ‘यतः क्वघोंच्छूितो द्रष्टा'-इत्यादि भास्करोक्तमेतदनुरूपं विचिन्त्यस् ॥६४॥ 5a वि. भा–दृग्मण्डलाधं भूव्यासार्धेन विहीनं तदा भूपृष्ठवासिनां दृश्यं खण्ड भवति । दृग्मण्डलाधं भूव्यासार्धेन युतं तदाऽदृश्य खण्डं भवति । यतो द्रष्टा अप- ष्टोपरि तिष्ठति तस्मात् कारणाल्लम्बनावनती भवेताम् । । नखम =भूकेन्द्रम् । पृ=भूपृष्ठ स्थानम्, चज=गर्भ क्षितिज धरातलम्नथुम = पृष्ठक्षितिजधरातलम् । भूपृ=भूव्यासध्रम् । ग्रः क्षितिजादुपरि दृग्मण्डलार्धश्=ट्रयखण्डम् भूख= दृग्मण्डलव्यासार्धम् । दृग्मण्डलव्या३-भूपृ = दृग्मण्डलव्या ३ –भूव्या ३ =पृख, पृ (भूपृष्ठ) स्थितो द्रष्टा दृग्मण्डलार्ध (दृश्य खण्ड) स्थितं ग्र ग्रहं पश्यन्ति । क्षितिजाधो दृग्मण्डलाधं=अदृश्य खण्डस् । = दृग्मण्डलव्या ई+भूव्या ३ । भू, पृ बिन्दुभ्यां (ग) ग्रहगते रेखे नीलाम्बरगो लीय दृग्मण्डले यत्र लग्ने तयोरन्तरं दृग्मण्डलीयचापं हलम्बनं कथ्यते । यर= दृग्लम्बनम् । प्रख=पृष्ठीयनतांशाः=<ग्र पृख, कोणज्या कोणोन भावुयाज्ययो- स्तुल्यत्वात् ज्याप्रमूख=ज्या (१८०. -< ग्रपृख)= पृष्ठीयदृग्ज्याज्याग्रपृ । भूग्रग्रहकर्णः। तदाऽनुपातेन पृदृग्ज्या.मूव्या है : ज्या भूग्रपृ = दृग्लंम्बन प्रकर्षे ज्या, यतः भूग्रपृ=<यग्र र नीलाम्बरगोलस्य केन्द्र यत्र कुत्रापि कल्पयितुं शक्य ते तेन ग्र बिन्दावपि तत्केन्द्र भवितुमर्हति । अतः यग्रर=यर चापम् । परं यरचापस्=दृग्लम्बनम् । अतः भूग्रq कोणोऽपि दृग्लम्बनम् । नतिश्च दृलम्बना धीना। लम्बननत्योरुत्पत्त: कारणं भूपृष्ठबिन्दुरेव सिद्धान्तशेखरे दृग्मण्डलाधं यदि होध्वंतग्रहं यतस्तत्परिणाहसंस्थम् । द्रष्टा प्रपश्यत्यवनीतलस्थो भ्रमत्यतः खेच- रसंमुखं तत् ।’ लल्लश्च-दृग्मण्डलमुपरिष्टाद् दृष्ट: स्यात्तवृत्तौ खचरः। श्रीपतेः प्रमाणम् । भास्कराचार्यःकुपृष्ठगान कुदलेन हीनं दृग्मण्डलाधं खचरस्य दृश्यम् । है 6