पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२८०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


स्फुटगति वासना १३७१ शीघ्रकर्म में इस तरह क्यों नहीं किया गया यह आशङ्का नहीं करनी | चाहिये क्योंकि फलो पपत्ति विचित्र है, यहां ब्रह्मगुप्तोक्त ही वहुत सुन्दर है इति ॥ २ ॥ इदानीं विशेषमाह । प्रतिपादनार्थमच्चं प्रकल्पितं ग्रहगतेस्तथा पातः । भुक्तरूनाधिकता मानस्य च भवति कर्णवशात् ॥ ३० ॥ सु. भा–प्रहगतेः प्रतिपादनार्थमुच्चं प्रकल्पितं तथा पातश्च प्रकल्पितः क्रान्तिवृत्तीयगत्यर्थमुच्चं विमण्डलीयगत्यर्थं पातः प्रकल्पित इति । कर्णस्य न्यूना धिकवशात् भुक्तबिम्बमानस्य च न्यूनाधिकता भवतीति । एवं मन्दस्पष्टग्रहे स्थितिर्भवति । भौमादीनां शीघ्रकर्णचशतश्च बिम्बमाने न्यूनाधिकता भवति परन्तु स्पष्टगतौ कर्णावशेन न न्यूनाधिकतोत्पद्यत इति छेद्यकेन सर्वं स्फुटम्। ‘यः स्यात् प्रदेशः प्रतिमण्डलस्य' इत्यादि तथा ‘उच्चस्थितो व्योमचरः सुदूरे’ इत्यादि च भास्करोक्तमेतदनुरूपमेव ।।३०।। वि. भा-ग्रहगतेः प्रतिपादनार्थमुच्चं प्रकल्पितं तथा पातश्च प्रकल्पितः । उच्चं क्रान्तिवृत्तीयगत्यर्थं विमण्डलीयगत्यर्थे च पातः प्रकल्पित इत्यर्थः। कर्णस्य न्यूनाधिक्यवशाद् भुक्तं बिम्बमानस्य च न्यूनाधिकता भवति । मन्दस्पष्टग्रहे एवं स्थितिर्भवति । मङ्गलादीनां ग्रहाणां शीघ्रकर्णवशाद्विम्बमाने न्यूनाधिकत्वं भवति । परं स्फुटगतौ कर्णवशेन न्यूनाधिकता नोत्पद्यते । कर्णवशेन बिम्बमाने न्यूनाचि कत्वं कथं भवति तदर्थं भास्करेण उच्चस्थितो व्योमचर ; सुदूरे नीचस्थित इत्यादिना युक्तियुक्तं कथितम् । यथा (ख) दृ= दृष्टिस्थानम् = भूकेन्द्रम् । टके=प्रह कर्णः । केस्म = बिम्ब व्यासार्धम् । दृकेस्प त्रिभुजे 5नुपातः क्रियते । यदि ग्रहकर्णेन त्रिज्या लभ्यते तदा बिम्ब व्यासावुन कि जाता बिम्बाधंकलाज्य (त्रि. विंव्या ३ तत्स्वरूपम् = , उच्चस्थनोय ५ कर्णः >अन्यस्थानीय क अत उच्चस्थाने हरस्याधि त्वाद्विम्बमानमन्यस्थानीयबिम्बमानादल्पं भवेत् । नीचस्थानीयकर्णः <अन्यस्थानीय कर्ण, अतो नच स्थाने हरस्याल्पत्वादन्यस्थानीय बिम्बमानादधिकं बिम्बमानं भवितुमर्हतीति ॥ ३० ॥