पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२७०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


स्फुटगति वासना १३६१ माच्च स्फुटं नरस्तद्विवरं फलं हि । ऋणं धनं च क्रियतेऽत एव मध्यग्रहे स्पष्टबुभु सुभिस्तत् ॥ॐ श्रीपतिनैवमेवं कथितम् । लल्लाचार्यस्तु प्रथममार्यभटोक्त स्पष्टी- करणक्रियाया उपपत्तिमेवाह । “मध्यमतुल्यं स्पष्टं भान्तगते भार्धगेऽपि वा केन्द्र । द्रष्टा पश्यति यस्मान्मध्यस्यातः फलाभावः । स्पष्टं पश्यति यस्मान्मध्याह्नाधिकं नरस्तस्मात् । विवरं तयोः फलमृणं घनं च मध्यग्रहे क्रियते । ’ भास्कराचार्येणापि "भूमेर्मध्ये खलु भवलयस्यापि मध्यं यतः स्याद्यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये । भूस्थो द्रष्टा नहि भवलये मध्यतुल्यं प्रपश्येत्तस्मात् तज्ज्ञः क्रियत इह तद्दोः फलं मध्यखेटे ॥" इत्यनेन प्रथममेकेनैव इलोकेन प्राचीनोक्तो मध्यम ग्रहस्य स्पष्टताविधायको विधिरुपपादितः पश्चाद्विशदव्याख्यया उपपादित इति । अथ ग्रह स्पष्टीकरणे छेद्यकाद्युपपत्तौ किमर्थं प्राचीनैः कक्षावृत्तप्रतिवृत्तादिकल्पना कृता तदर्थं किञ्चिदुच्यते । भूकेन्द्रमिति कल्पितात् कस्माच्चिदपि बिन्दोरभीष्ट त्रिज्याव्यासार्धेन कक्षावृत्तसंज्ञकं वृत्तं कार्यम्, वस्तुत इदं वेधवलयं, एतवृत्तकेन्द्रात् तत्तद्गोलस्थग्रहेषु सूत्रं यत्र यत्राऽस्त्रिन् वृत्ते लगति तत्र तत्र स ग्रह परिणतः कल्प्यते । कक्षावृत्तकेन्द्रात् (भूकेन्द्रा) कक्षावृत्तस्योर्वाधरा व्यासरेखा कार्या, केन्द्रत एतदुपरि लम्बरूपाऽन्या तियेंग्रेखा च कार्या, केन्द्रादूर्वाधरव्यासरेखा- यामिष्टग्रहस्य वेधावगतान्यफलज्यासमं खण्डं छित्वा छेदितबिन्दोस्तत्रिज्या व्या साधेनैव वृत्तं शीघ्रप्रतिवृत्तसंज्ञकं कार्यं । इदमेव वृत्तं मन्दस्पष्टग्रहभ्रमणवृत्तम् । वृत्तस्याप्यस्य केन्द्र भूकेन्द्र (कक्षावृत्तकेन्द्र) मेव कथं नेति प्रतिदिनं वेषविधिना कर्णज्ञानेन निश्चितम् । अथ स विन्दुमॅकेन्द्रात् कियदन्तरेऽस्ति यस्मात्प्रतिवृत्तपर्यन्तं नीयमानं सूत्रं तुल्यं भवतीत्यस्यापि ज्ञानं वेधविधिना कृत्वा स एव बिन्दुः प्रतिद्- तस्य केन्द्ररूपः कल्पितः । कक्षावृतप्रतिवृत्तयोः केन्द्राभ्यां भगोलीयमेषादिगते रेखे यत्र यत्र कक्षावृत्ते प्रतिवृत्ते च लग्ने तत्र तत्र तवृत्तद्वये मेषादिबिन्दू भवतः । भू केन्द्रप्रतिवृत्तस्य यो बिन्दुः सर्वबिन्दुपेक्षयाऽतिदूरे भवेत्स उच्चसंज्ञकस्तस्य राश्या दिज्ञानं कृत्वातन्मितमेव कक्षावृत्तेऽप्युच्चं परिकल्प्य ग्रहानयनं भवति, इतोऽन्यथा नेति, तथोच्चयोस्तुल्यत्त्वे एतयोः स्त्रयोभंगोलीयमेषादिबिन्दौ योगे सत्यपि समान न्तरत्वं स्वीकृत्यानन्तदूरे यस्मिन् बिन्दौ सूत्रद्वयस्य योगो भवेत्ते सूत्रे अपि समा नान्तरे भवत इति प्राचीनाः स्वीकृतवन्तः । इह वास्तवभगोलस्तावति दूरेऽस्ति यत्र भूकेन्द्रमारभ्य शनिकक्ष्यनिष्ठादपि कस्माच्चन बिन्दुतो नीयमाना रेखाऽनन्ता भवति। ग्रहसाघनगणिते केन्द्रोच्छनिकक्षापर्यन्तमेव भगोलबिन्दुगतरेखयोः समानान्तरत्वं स्वीक्रियते । अतोऽत्र भगोलस्य केन्द्र यत्र कुत्रापि कल्पयितुं शक्यते । भूकेन्द्र प्रतिवृत्तस्य को बिन्दुरतिदूरेऽस्ति यदुच्चसंज्ञकं वृत्तद्वयकेन्द्रगतैव रेखा सवींघिका भवत्यतः प्रतिवृत्तस्यापीयमेव रेखोच्चरेखा भवेत् । वस्तुतः प्रतिवृत्त एवो चमस्ति । अनुपातागतं राश्याद्युच्चं कक्षावृत्ते दत्तं भूकेन्द्रात्तद्गतरेखेव प्रति वृत्तीयोच्चरेखा भवतीति विलोमेन प्रतिवृत्ते मेषादिज्ञानं भवेत् । अथ यदि कया