पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहरणानि १२७७ होते हैं उन दोनों से परस्पर हारों को गुणाकर लघुतमापत्यं ही उत्पादित किया इति || ५६ - ६० ||

                      इदानीमन्यान् प्रश्नानाह |
        द्यु गणमवमावशेषाद्नविचन्द्रौ मध्यमौ स्फुटावथवा |
        एवं तिथिं ग्रहं वा कुर्वन्नावत्सराद् गणकः ||६१||

सु.भा. -अवमावशेषात् क्षयशेषाद्द्युगणमहर्गणं वा मध्यमौ रविचन्द्रावथ वा स्फुटौ रविचन्द्रौ वैवं तिथिं वा ग्रहमिष्टग्रहं भौमाद्यन्यतममावत्सरात् कुर्वन्नपि स गणकोsस्तीति पञ्च प्रश्ना अत्र ||६१||

वि.भा. - अवमावशेषादहर्गणं वा मध्यमौ रविचन्द्रौ, अथवा स्फुटौ रविचन्द्रौ, वैवं तिथिं वेष्टग्रहं मङ्गलाद्यन्यतममावत्सरात् कुर्वन् स गणकोsस्तीति | अत्र प्रश्नाः सन्ति ||

हि.भा. - जो व्यक्ति अवमवशे से अहर्गण को कहते हैं व मध्यम रवि और् मध्यम चन्द्र को कहते हैं अथवा स्फुट् रवि और चन्द्र को कहते हैं | वा तिथि को कहते हैं वा इष्ट ग्रह (कुजादि ग्रहों में किसी ग्रह) को कहते हैं वे गणक हैं| यहां पांच प्रश्न है इति ||९१||

                  इदानीमन्यान् प्रश्नानाह|
       एकदिनमवशेषं यद्गुणमेकं रविचन्द्रभगणोनम्|
       शुध्यति भूदिनभक्तं व्येकं चान्द्रैस्तदुक्तिरियम् ||६२||

सु.भा. - एकदिनसम्बन्ध्यवमशेषं यद्गुणं येन गुणमेकोनं भूदिनभक्तं शुध्यति वाsवमशेषं यद्गुणं रविभगणोनम् भूदिनभक्तं शुध्यति| वाsवमशेषं यद्गुणं व्येकं चान्द्रैश्चान्द्रदिनैर्भक्तं शुध्यति| अथेयं वक्ष्यमाणा तेषां प्रश्नानानामुक्तिरुत्तरोक्तिरिति ||६२||

वि.भा. - एकदिनसम्बन्ध्यवमशेषं येन गुणमेकहीनं कुदिन भक्तं शुध्यति| वाsवमशेषं येन गुणं रविभगहीनं कुदिनभक्तं शुध्यति| वाsवमशेषं येन गुणं चन्द्रभगणिन हीनं कुदिनभक्तं शुध्यति, वाsवमशेषं येन गुणमेकहीनं चान्द्रदिनैर्भक्तं शुध्यति| इदं वक्ष्यमाणा तेषां प्रश्नानानामुत्तरोक्तिः| अत्र चत्वारः प्रश्नाः सन्तीति ||९२||

अत्र अन्य प्रश्नों को कहते हैं|

हि.भा.- एक् दिनसम्बधी अवमशेष को जिस गुणक से गुणाकर, एक घटाकर