पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः २५३ वा. भा.-–स्पष्टार्थेयमार्या इदानीं भुवन्नरानयनार्थमार्यामाह । वि. भा–कृष्णपक्षीयचतुर्दश्याः परावं शकुनिः, पर्वणि प्रथमे (अमवास्या पूर्वार्धे) चतुष्पदं करणम् । तिथ्यर्थेऽन्ते (अमावास्योत्तरार्धे) नागं, प्रक्षिपदावर्ये (शुक्लपक्षीय प्रतिपत्पूर्वार्धे) किंस्तुघ्नं करणं भवतीति ॥ ६५ ॥ अत्रापपत्तिः लल्लाचार्येणा ‘शशिनि कृशशरीरे या चतुर्दश्यवश्यं गकुनिरपरभगे जायते नाम तस्याः । तदनुतिथिदले ये ते चतुष्पादनागे प्रतिपदि च यदाधं तद्धि किंस्तुघ्न माहुः’ नेन, श्रीपतिना चे “कृशशिचतुर्दश्यामन्त्ये दले शकुनिर्भवेत् प्रथमशकले- ऽमावास्यायश्चतुश्चरणाह्वयम् । करणमुदितं नागस्तस्या दले चरमे बुधैः प्रतिपदि भवेत् किंस्तुघ्नाख्यं सदा प्रथमे दले” त्यनेन, भास्करेण च "शकुनितोऽसितभूद- दलादनु’ इति मूलोक्त्या ‘‘कृष्णचतुर्दश्यर्धादुपरि यान्यवशिष्यन्ते त्रीणि चतुर्थं प्रतिपत्प्रथमार्धे च । एतानि चत्वारि शकुनिनः। शकुनिचतुष्पदनामाकिंस्तुघ्नानी- ति शेषः” व्याख्ययाऽनयाऽमावास्यापूर्वोत्तरार्धयोश्चतुष्पदनागाख्ये करणे कथिते । सूर्यसिद्धान्ते च ‘ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम् किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्वपराधतः’ इत्यनेनाऽमावास्या पूर्वोत्तरार्धयोः नागचतुष्पदाख्ये करणे कथिते तदनयोः करणयोः पूर्वापरक्रमभेदे सूर्यसिद्धान्तसुधावषण्यां “‘प्रायः सर्वेषां मते ब्राह्मक्रम एव युक्तोऽतः प्रथमं शकुनिः। तृतीयं तु नगम । चतुष्पदं द्वितीयमि त्यध्याहार्यम्’ म.म. सुधाकरद्विवेदिनो लिखितवन्त इति । । ६५ ॥ अब स्थिर करणों को कहते हैं । हि भा-कृष्ण पक्ष की चतुर्दशी के परार्ध में शकुनि करण, अमावास्या के पूर्वार्ध में चतुष्पद करण और परार्ध में नाग करण, शुक्ल पक्ष की प्रति पदा के पूर्वार्ध में किंस्तुघ्त करण होते हैं इति ।। ६५ ।। उपपति लल्लाचायं ‘शशिनि कृशशरीरे या चतुर्दश्यवश्यं’ इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से ‘कुश शशि चतुर्दश्यामन्त्ये दलेइत्यादि संस्कृतोपपत्ति में लिखित इलोक से श्रीपति तथा ‘शकुनितोऽसितभूतदलादनु इससे भास्कराचार्य भी आचायॉक्तानुरूप ही कहते है । सूर्य सिद्धान्त में “ध्रुवाणि शकुनिगरां तृतीयं तु चतुष्पदम्" इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से अमावास्या के पूर्वार्ध में नागकरण और उत्तरार्ध में चतुष्पदकरण कहते हैं, इन दोनों करणों के पूर्वापर क्रम भेद के विषय में सूर्य सिद्धान्त की सुधाषणी टीक में प्राय: