पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
71
तर्ककाण्डः

वस्तुमात्रविषयं प्रथममविकल्प'कं प्रत्यक्षम्; तत्पूर्वास्तु विकल्पबुद्धयो विशे षानवगाहन्त इते सर्वप्रत्यास्मवेदनीयम् । स्यादेतत्- विशिष्टरूपोप- ग्रावेव प्रत्यक्षम्; स तु भेदः शब्दनसंस्पशन तथोपलक्ष्यते, यथा चिकल्५- बुद्धौ । तदयुक्तम्, विप्रतिषेधात् ; न चेपलक्ष्यते प्रत्यक्षवुडौ विशेषः प्रकाशते चेति विप्रतिषिद्धम्, अतोऽतिसहसमित्युच्यते । यस्तु संवित्त- वेव विप्रतिपद्यते सर्वानास्मव्यावृत्तस्पष्टप्रतिभासं प्रत्यक्षमिति वदन्, तस्यो तरम् -"आहुर्विधतृप्रत्यक्षम् ” इत्याद्युक्तमेवेति ।

किं च

प्रतिष्ठिते च विज्ञानमर्थमात्रावलम्बनम् ।
भेदेषु त्वप्रतिष्ठस्वमस्तीन्द्रियधियामपि ॥ २८ ॥

वस्तुद्वयानुपपत्तेरेकस्य च द्वयास्मता‘योगादवश्यकल्पनीयेऽन्यतरस्य मिथ्यात्वे युक्तं विशेषावभासस्य मिथ्यात्वम् , रजतादिविश्रान्तिषु दर्शनात् ; न च वस्तुमात्रावभासस्य । न हि वस्तुमात्रव्यभिचारः कचिज्जने दृष्टोऽस्ति, अन्ततस्तस्यैव वस्तुनः प्रतिभासनात्; दृष्टतद्भवस्यैव तस्कल्पना लध्वी, कृप्तत्वाद्योग्यतायाः; इतरत्र 'तु कल्प्यत्वात् । स्यादेतत्-–मानस्य एव बुद्धयः धृप्तयोग्यभावा मिथ्यास्वं प्रति, नेन्द्रियजन्मानःइन्द्रियबुद्धिसमधिगम्याश्च भेदा इति । एतच वार्तम् ; इन्द्रियदोषविशेषानुविधायित्वद्भान्तीनामिति ।

अपि च यस्य मतम् - श्यावृत्तवलक्षण भावाः ; तन तेऽन्योन्या भावस्वभाबा व्याकतेव्याः, तद्विशेषण वा ; नान्यथा व्यावृत्तशब्दोऽर्थवान् भवति, तस्येतरेतराक्षवनिमित्तत्वात् । तत्र

अन्योन्याभावरूपत्वं सर्वेषां न प्रकल्पते ।
तत्रोपाधौ प्रतीयन्तां तथा भिन्ना न रूपतः ॥ २९ ॥

एकस्मिन्ननपेक्षे स्थिते तदभावरूपोऽन्यो व्यवतिष्ठते ; सर्वे तु नान्योन्याभाव रूपाः कल्पन्ते, परस्पराश्रयस्थितित्वात् । अथ विशेषणमन्योन्याभवः ;

कामम् अतदात्मानोऽपि विशेषणानुरागात् तथावगम्यन्ताम्; न तु स्वभाव


1 ल्यं-A and B

2 पूर्व(वं )का–c

3 B and Commit च

4 कत्व-A

5 A units तु

6 A omit8 य

7 A and B omit अपि