पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१६१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तर्ककाण्डः

यस्य रबळ द्रव्यात् पर्याया भिद्यन्ते तस्य--द्रव्यमात्रार्थिनो द्रव्यस्य स्थितेर्विनाशाभावादपूर्वस्यानुपादान्मध्यस्थता, रुचकार्थिनस्तस्यापूर्वस्योपः प्रीतिः, वर्धमानकार्थिनस्तस्य विनशाच्छोकः- इति व्यवस्था करुपेते । यस्य तु पर्यायेभ्योऽनन्यद्रव्यं न द्रव्यादन्ये पर्यायाःतस्य--उत्पत्तिस्थि तिभङ्गानांमेकत्रॐ समवाये द्रव्यार्थिनो मध्यस्थत भवेत्, न भवेच; प्रति शोकौ स्याताम्, न स्याताम् । न हि तद्रव्यमवतिष्ठत एव, विनश्यत्य'- पूर्व चोत्पद्यते; तत्र विनाशादपूर्वारातेश्च प्रीतिशोकौ स्याताम्, न मध्य स्थता; मध्यस्थता च स्थितेः स्यात्- इति दुर्घटमापधेत । तथा वर्धमा- नकार्थिनस्तन्नाशाच्छोकः स्यात्; न च स्यात् स्थितेः; प्रीतिश्च तस्यापू- र्वस्यो¢त्पादात् स्यात्, न च स्यात् । तथा रुचकाथिनस्तस्यापूर्वस्योदयात् प्रीतिः स्यात्; न च भवेत्, पूर्वस्यैव स्थितेः ; विनाशाच शेकः स्या दिति । अथ भेदोऽप्यस्तीति नायं दोषःअभेदेऽप्यस्तीति किं न भवति ? अथ नात्यन्तमभेदःतेन न संकरः ; नात्यन्तमभेद इति व्यवस्थापि न, युज्यते; न चास्य 'किंचित् कचिदेकान्ततः सर्वत्रानेकान्तमभ्युपयतः, येनायं विशेष उच्यते-- नात्यन्तमभेद इत्यसंकर इति । तथा च

नैकान्तः सर्वभावानां यदि सर्वविधानतः ।
अप्रवृत्तिनिवृत्तीदं प्राप्तुं सर्वत्र ही! जगत् ॥ २१ ॥

यदा हेि सर्वप्रकारेष्वनैकान्तिकत्वं भावानां, तथा सति—नाय लोकः कचिदभिमतसाधनताप्रकारमवधार्यं प्रवर्तेत, यतो नासौ तथैव; नापि निव तंत, यतो नासावतथव ; , तथा दुःस्वहेतोर्न निवर्तेत, यतो नासौ तथैव ; नापि न निवर्तेत, यतो नासावतयैव--इति कष्ट बत ! दशामपद्यत ।

अथ वा यदुक्तम्-प्रतिमध्यस्थताशोका स्युर्न स्युरिति दुखीठमिति, तत्र यु:--सर्ववस्तुषु सर्वप्रकाराणामनैकान्तिकत्वात का दुर्घटता तथा "हि –प्रीतिमध्यस्थताशोका नैकान्ततः सन्ति, नैकान्ततो न सन्तीति ।

अत्रोच्यते-मैक्रान्तः सर्वमावानामिति । यदि खलु प्रत्यवनां सदसवेऽ


1 A omits स्य

2 यस्य तु न पर्यायेभ्योऽन्यद्दव्यं--A

3 A omit F

4 A adds प्य

5 आपद्यते—A

6 उदयात-A

7 कश्चित्तु-A

8 एकान्तः-C

9 नातथैव-A

10 c omit= हि

11 तत्रोच्यते--A