पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


च स्तनं ददौ ॥ १ ॥ एतस्मिन्नंतरे गोप्य आजग्मुर्नेदमंदिरम् । स्थविराश्च वयस्याश्च बालिका बालकान्विताः ॥ २ अतृप्तं बालकं शीघ्र संन्यस्य शयने सती ॥ प्रणनाम समुत्थाय कर्मण्यौत्थानिके मुदा ॥ तैलसिंदूरतांबूलं ददौ ताभ्यो मुदान्विता ॥|छ। मिष्टवस्तूनि वस्त्राणि भूषणानि च गोपिका ॥ ४ एतस्मिन्नन्तरे कृष्णो रुरोद क्षुधितस्तदा ॥ प्रेरयित्वा सं चरणं मायेशो मायया विभुः। पपात चरणं तस्य प्रवीणे शकटे सुने ॥ विधेभरपदाघातात्तच्च चूर्णं बभूव ह ॥६॥ वभंज शकटं पेतुर्भग्नकाष्ठानि तत्र वै ॥|चें ङ|पपात दधिदुग्धं च नवनीतं घृतं मधु ।।७। दृष्टाश्चर्यं गोपिकाश्च दुद्रुवुर्बालकं भयात् ॥ ददृशुर्भमशकटमिंधनाभ्यंतरे शिशुम् ॥८॥ |भग्नभांडसमूहे च पतितं बढंगोरसम् । प्रेरयित्वा तु काष्ठानि जग्राह वालकं भिया ॥ ९॥ मायारक्षितसर्वांगं रुदितं क्षुधितं क्षुधा ॥ ॥ पप्रच्छुर्बालकान्गोपा बभज शकटं कथम् ॥ कंचिदेनं न पश्यमः सहसेति फ्नं यदा ते रोचे ध्रः सगण गोपा गोप्यश्च जहसुर्मुदा । न हि जग्मुः प्रतीतिं च मिथ्येत्यूचुर्नजे प्रजाः ॥ १३ । शिशोः स्वस्त्ययनं कार्यं चक्रुर्माह्मणपुंगवाः हस्तं दत्त्वा शिशोर्गात्रेप पाठ कवचं द्विजः ॥ १४ ॥ वदामि तत्ते विप्रेन्द्र कवचं सर्वरक्षणम् । यद्दत्तं मायया पूर्वं ब्राह्मणे नाभिपं छे |ङ्कजे ॥१५॥ निद्रिते जगतीनाथे जले च जलशायिनि । भीताय स्तुतिकर्ते च मधुकैटभयोर्भयात् ॥ १६ ॥ |दूरीभूतं कुरु भयं भयं किं ते हरौ स्थिते ।। स्थितायां मयि च ब्रह्मन्सुखी तिष्ठ जगत्पते ॥ १७ ॥ श्रीहरिः पातु ते वक्त्रं मस्तकं मधु ॐ|सूदनः । श्रीकृष्णश्चक्षुषी पातु नासिकां राधिकापतिः ॥ १८ ॥ कर्णयुग्मं च कण्ठं च कपालं पातु माधवः । कपोलं पातु गोविन्दः केशांश्च केशवः स्वयम् ॥ १९॥ अधरोष्ठे हृषीकेशो दंतपंक्तिं गदाग्रजः ॥ रासेश्वरश्च रसनां तालुकं वामनो विभुः |२०॥ १ भोजनानि -६० पा० । २ तु-६९पा°। ३ रस-३०पा० ४ पप्रच्छ बालकान् गोपी-३०प० पश्याभ पा०। ६ तर्णम्-३०पा९।७ सुखम्-३० पा० ।