न. वै. कु,
॥ २४
अ० ७
'
सर्वेशं सर्वरूपं च सतकरमव्ययम्॥ सर्वाधारं निराधारं निर्गुहं स्तौमि किं विभुम् ॥ ८६ ॥ अनंतः स्वनेऽशक्तोऽशक्ता देवी|| सं० ४ -
सरस्वती ॥ यं वा स्तोतुमशक्तध पंचवः षडाननः ॥८७॥ चतुर्मुखो वेदकर्ता ये स्तोतुमक्षमः सदा ॥ गणेशो न समर्थश्च योगी
|द्राणां गुरोर्गुरुः ॥ ८८ ॥ ऋषयो देवताश्रेव मुनींद्रमनुमानवाः ॥ स्वप्ने तेपामहश्यं च वामेवं किं स्तुवंति ते ॥ ८९
स्तवनेऽशक्ताः किं स्तुवंति विपश्चितः । विहायैवं शरीरं च वालो भवितुमर्हसि ॥ ९ वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ॥
भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणांबुजे १ ॥ विशिष्टपुत्रं लभते हरिदासं गुणान्वितम् ॥ संकटं निस्तरेत्तृणं शत्रुभीत्या
प्रमुच्यते ॥ ९२ ॥ इति श्रीत्रह्मवैवर्ते वसुदेवकृतं श्रीकृष्णस्तोत्रम् ॥ नारायण उवाच । वसुदेववचः श्रुत्वा तमुवाच हरिः स्वयम् ॥
|प्रसन्नवदनः श्रीमान्भक्तानुग्रहकातरः ॥ ९३ ॥ श्रीकृष्ण उवाच ॥ ॥ तपसां च फलेनेव पुत्रोऽहं तव सांप्रतम् । वरं वृणीष्व भद्रं
|ते भविष्यति न संशयः ॥ ९१ ॥ पुरा तपस्विनां श्रेष्ठः सुतपास्वं प्रजापतिः पत्नी ते पृश्रिनामी च तपसाराधितस्त्वया
९८॥ पुत्रो मत्सदृशस्तत्र दृष्ट्वा मां च वृतो बुधैः मया दत्तो वरस्तुभ्यं मत्समो भविता सुतः ॥ ९६ दत्त्वा तुभ्यं वरं
तात मनसालोच्य चिंतितः । मत्समो नास्ति भुवने पुत्रोऽहं तेन हेतुना ॥ ९७ ॥ तपसां च प्रभावेण त्वमेव कश्यपः स्वयम् ।
सुतपा देवमातेयमदितिश्च पतिव्रता ॥ ९८ ॥ अधुना कश्यपांशस्वं वसुदेवः पिता मम ॥ देवकी देवमातेयमदितेरंशसंभवा
॥ ९९ ॥ त्वत्तोदित्यां वामनोऽहं पुत्रस्तेंशेन संभवः । अधुना परिपूर्णाऽहं पुत्रस्ते तपसां फलात् ॥ १ मां वा वं पुत्रभावेन
ब्रह्मभावेन वा पुनः ॥ मां प्राप्तोसि महाप्राज्ञ जीवन्मुक्तो भविष्यसि ॥१०१॥ यशोदाभवनं शीघ्र मां गृहीत्वा व्रजं व्रज ॥ संस्थाप्य
तत्र मां तात मायामादाय स्थापय ॥ १०२॥ इत्युक्त्वा श्रीहरिस्तत्र बालरूपो बभूव ह ॥.नग्नं भूमौ शयानं च ददर्श श्यामलं
सुतम् ॥ १०३ ॥ दृझा स बालकं तत्र मोहितो विष्णुमायया ॥ किं वा कूटं च तंद्रयामपूर्वं मृतिकागृहम् ॥१०८॥ इत्युक्त्वा वसुदे २४ ॥
१ विभ-रति पा० । २ वर:-इति पा९३ तपसः-इति पा० ।
७
o o
/9
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
