पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|भारहारकाः। कलया देवपत्न्यश्च गच्छंतु पृथिवीतलम् ॥ १८९ ॥ इत्येवमुक्त्वा भगवान्विरराम च नारद ॥ सर्वं विवरणं श्रुत्वा |तत्रोवास प्रजापतिः ॥ १८६ ॥ कृष्णस्य वामे वाग्देवी दक्षिणे कमलालया । पुरतो देवताः सर्वाः पार्वती चापि नारद ॥ १८७ ॥ |गोप्यो गोपाश्च परितो राधा वक्षःस्थलस्थिता । एतस्मिन्नंतरे सा च तमुवाच व्रजेश्वरी ॥ १८८ ॥ ॥ .राधिकोवाच ॥ ॥ शृणु नाथ ॐ|प्रवक्ष्यामि किंकरी वचनं प्रभो॥ प्राणा हंति सततमांदोलयति मे मनः ॥ १८९ ॥ चक्षुर्निमीलनं कर्तुमशक्ता तव दर्शने ॥ वया| विना कथं नाथ यास्यामि धरणीतलम् ॥ १९० ॥ कियत्कालांतरेणैव मेलनं मे त्वया सह ॥ प्राणेश्वर ब्रूहि सत्यं भविष्यत्येव गोकुले ॥ १९१ ॥ निमेषं च युगशतं भविता मे त्वया विना । कं द्रक्ष्यामि क्व यास्यामि को वा मां पालयिष्यति ॥ १९२ ॥ |मातरं पितरं वधं भ्रातरं भगिनीं सुतम् ॥ वया विनाऽहं प्राणेश चिंतयामि न कंचन ॥ १९३ ॥ करोपि मायया छन्नां मां |चेन्मायेश भूतले ॥ विस्मृतां विभवं दत्त्वा सत्यं मे शपथं कुरु ॥ १९४ ॥ अनुक्षणं मम मनोमधुपो मधुसूदन ॥ करोतु भ्रमणं| नित्यं समाध्वीके पदांबुजे ॥ १९६ ॥ यत्रयत्र च यस्यां वा योनौ जन्म भवत्विदम् ॥ वे स्वस्य स्मरणं दास्यं मह्] दास्यसि वांछितम् ॥ १९६ ॥ कृष्णस्त्वं राधिकाहं च प्रेमसभाग्यमावयोः ॥ न विस्मरामि भूमौ च देहि मह्कु वरं परम ॥ १९७ ॥ यथा तन्वा सह प्राणाः शरीरं छायया सह । ॥ तथावयोर्जन्म यातु देहि मठं वरं विभो ॥ १९८ ॥४ |चक्षुर्निमेषविच्छेदो भविता नाद्योद्भुवि ॥ तत्रागत्यापि कुत्रापि देहि मह्र वरं प्रभो ॥ १९९ ॥ मम प्राणैस्तव । |तनुः केन वा करुणा हरे ॥ आत्मना मुरलीपादौ मनसा वा विनिर्मितौ ॥ २०० ॥ स्त्रियः कतिविधाः संति पुरुषा वा पुरुष्टुतः ॥ |नास्ति कुत्रापि कांता वा कांत्या शक्या च मादृशी ॥ २०१ ॥ तव देहार्धभागेन केन वाऽहं विनिर्मिता । अयमेवावयोगेंदोझ |ङ|नास्त्यतस्त्वयि मे मनः ॥ २०२ ॥ ममात्मा मानसं प्राणास्त्वयि संस्थापिता यथा ॥ तवास्ममानसप्राणा मयि वा संस्थिता १ वार्यते हरे-३० पा°। |