पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुमनोहराम् । चिरकालगतं वस्तु लभते सहसा ध्रुवम् ॥ ७६ ॥ राज्यभ्रष्टो लभेद्यं शंकरस्य प्रसादतः । कारागारे श्मशाने च शय्यस्तेऽतिसंकटे ॥ ७७ ॥ | गभीरेऽतिजलाकीर्णे भनपोते विषादने । रणमध्ये महाभीते हिंस्रजंतुसमन्विते ॥ ७८ ॥ सर्वतो मुच्यते स्तुत्वा शंकरस्य प्रसादतः ॥ ७९ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्री कृष्णजन्मखण्डे नारायणनारदसंवादे ॥ ३८ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ इति स्तुत्वा हिमगिरिर्वसतः शंकरस्य च ॥ उवास पुरतो दूरे लब्धा समागत्य मेनका श्रीगणैः सह ॥ ददर्श वटमूलस्थे शंकरं चंद्रशेखरम् ॥ ३ ॥ ईषदास्यप्रसन्नास्यं वसंतं व्याघ्रचर्मणि ॥ मध्ये सुनिगणानां च ज्वलंतं ब्रह्मतेजसा ॥ ४ ॥ यथाकाशे तारकाणां द्विजराजं विराजितम् । परमाडादकं रूपं कंदर्पकोटिसन्निभम् । ८॥ |विहाय वाद्भकावस्थां दधतं नवयौवनम् । अतीव सुंदरं रम्यं चित्तचोरं च योषिताम् ॥ ६ ॥ कामं कामातुराणां च सतीनां च सुतं यथा ॥ वैष्णवानां महाविष्णु शेवानां च सदाशिवम् ॥ ७॥ शक्तिस्वरूपं शाक्तानां सौराणां सूर्यरूपिणम् ॥ कालस्वरूपं दुष्टानां शिष्टानां परिपालकम् ॥८॥ कालकालसमे मृत्योर्युत्युमृत्थं भयानकम्।व्यात्रचर्मचारुवनं बभूव भस्मचंदनम्॥९॥ सर्पः सुंदरमाल्या |नि कस्तूरी या विषप्रभा।। जटा सुललिता चूडा चंद्रस्वलिकचंदनम् । १०॥ सुचाव मालतीमाला गंगाधारा मनोहरा ॥ अस्थिमा ला रत्नमाला धतूरं चारुचंपकम् ॥३३॥ एकीभूतं पंचवी नेत्रयुग्माब्जशोभितम् ॥ शरत्पार्वणचंद्रभं प्रच्छाद्य दीप्तमुत्तमम् ॥ १२॥ ॥श्वेतषेद्रो वृषेद्घ धूताद्यनर्तका इव।१३सयो व्यतिक्रमं सर्व महेशस्य महेश्वरि ॥ दृष्टैवं शिव यं च मेना तुष्टा बभूव ह ॥ १४ ॥ काश्चिन्निमेषरहिताः कामेन पुलकांचिताः । अतिकामातुराः सत्यः प्राg&थं च काञ्चन ॥ | ॥ कश्चिद्विनिंद्य तव प्रशशंसुर्महेश्वरम् ॥ मनोरथेन मनसा समाश्लिष्यंति काचन ॥ १६ ॥ चिन्मानसिकं कामा