पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूच्यते ॥ ४८ ॥ मित्रभेदो भवेदूरं तत्संप्रीतिर्भवेत्पुरा ॥ पार्वती परितुष्टा च न त्यजेत्तस्य मंदिरम् ॥ १९ ॥ ॥ श्रीकृष्ण उवाच ॥ श्रुत्वा प्रतिज्ञों नाथस्य परितुष्टा बभूव सा ॥ जगाम स्वर्णदीं तूर्णं नानार्थ शेकराज्ञया ॥ ६० ॥ स्रात्वा संपूज्य भक्त्या च सुरभिष्टं च निर्गुणम् ॥ चकार प्रस्तुतं शीघ्र मिष्टान्नं व्यंजनानि च ॥६१ ॥ शिवः स्रात्वा च संपूज्य प्रज्योतिः सनातनम् । तुष्टाव परया भक्त्या मामेव हृदयस्थितम् ॥६२॥ गत्त्रा सर्वमहं भुक्त्वा तस्मै दत्वाभिवांछितम् पार्वती लेभे तव मूलं समागता ॥ ६३ ॥ भुक्त्वावशेषे सा देवी सह भत्र मुदान्विता । तुष्टाव शंकरं भक्त्या प्रणनाम मुहु मुहुः ॥६६ ॥ इत्येवं कथितं सर्वं त्वया पृष्टं सुरेश्वरि ॥ अभिशतं शंकरस्य निर्माल्यं येन हेतुना ॥ ९६॥ इति श्रीब्रह्मवैवर्ते| महापुराणे श्रीकृष्णजन्मखण्डेनारायणनारदसंवादे हरनिर्माल्यशापप्रसंगोनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ ॥ श्रीकृष्ण उवाच । दर्पभगः श्रुतो देवि शंकरस्य जगद्वरोः । अधुना श्रूयतां मत्तो दुर्गादर्पविमोचनम् ॥ १ ॥ तेजसा सर्वदेवानामाविधैय जगत्प्रसूः ॥ दधार कामिनीरूपं कमनीयं मनोहरम् ॥ २॥ निहत्य दानवेंद्रांश्च ररक्ष देवताकुलम् ॥ लेभे जन्म ततो देवी जठरे दक्षयोषितः ॥ ३ ॥ पिनाकपाणिं जग्राह सा देवी मुरसाधनम् ॥ शश्वत्परमभक्त्या च सिषेवे स्वामिनं सती ॥ ६ ॥ दक्षेण सादं देवेन बभूव शिवंशभृता ॥ निरर्थकं दैवयोगात्पुरा वे मुरसंसदि ॥ ६ ॥ दक्षश्चकार यज्ञे च तत आगत्य कोपतः॥ सर्वान्विज्ञापयामास तत्रैव शंकरं विना ॥ ६ ॥ सस्रका देवताः सर्वा आजग्मुर्दक्षमंदिरम् । सगणः शंकरः ॥ ७ ॥ सती पतिं च मोहेन बोधयामास यत्नतः ॥ न तं चालयितुं शक्ता बभूव चंचला स्वयम् ॥ ८ ॥ आजगाम पितुर्गेहं दुषीत्तस्य विनाज्ञया । तस्य शापेन तस्याश्च र्पभंगो बभूव ह ॥९॥। न हि संभाषणं चक्रे वाइमात्रेण पिता च ताम् ॥ श्रुत्वा च निंद भर्तुश्च देवें तत्याज मानलः ॥ १०॥ एवं प्रिये निगदितं सतीदर्पविमोचनम् । तस्या जन्मांतरं नित्यं दर्पभंगश्च भूयताम् ॥ ११ ॥,लेभे जन्म सती शीम जठरे शेलयोषितः । शिवस्तस्याधिताभस्म चास्थि जग्राह भक्तितः ॥ ३२ ॥ चक्रार मालामस्त्रं च भस्मना तनुलेप