॥ श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः ॥ ॥ श्रीगोपीजनवल्लभाय नमः॥ अथ त्रह्मवैवतयश्रीकृष्णजन्मखण्डप्र। रंभः ॥ ||
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥ देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥ ॥ नारद उवाच ।। श्रुतं प्रथमतो |”
ब्रह्मन्ब्रह्मखण्डं मनोहरम् । ब्रह्मणो वदनभोजात्परमाद्भुतमेव च ॥ १ ततस्तद्वचनात्तूर्णं समागत्य तवांतिकम् ॥ घृतं प्रकृतिखंडे।
झ|च सुधाखंडात्परं वरम् ॥ २॥ ततो गणपतेः खंडमखंडभवखंडनम् न मे तृतं मनो लोलं विशिष्टं श्रोतुमिच्छति ॥ ३ ॥
श्रीकृष्णजन्मखंडं च जन्मादेः खंडनं नृणाम् । प्रदीपं सर्वतत्त्वानां कर्मग्नं हरिभक्तिदम् ॥ 8 । सद्यो वैराग्यजननं भवरोगनिर्जेत
ॐ|नम् ॥ कारणं मुक्तिबीजानां भवाब्धेस्तारणं परम् ॥ ८॥ कमपभोगरोगाणां खंडने च रसायनम् श्रीकृष्णचरणांभोजप्राप्तिसोपा
नकारणम् ॥ ६ ॥ जीवनं वैष्णवानां च जगतां पावनं परम् ॥ वद विस्तार्य मां भक्तं शिष्यं च शरणागतम् ॥ ७ ॥ केन वा प्रार्थितः
कृष्ण आजगाम महीतलम् ॥ सर्वाशेरेक एवेशः परिपूर्णतमः स्वयम् ॥ ८ ॥ युगे कुत्र कुतो हेतोः कुत्र वाविर्बभूव ह ॥ वसुदेवोऽस्य|हैं|
ॐ|जनकः को वा का वा च देवकी ॥ ९ ॥ वद कस्य कुले जन्म मायया सुविडंबनम् । किं चकार समागत्य केन रूपेण वा हरिः ।
॥१ ॥ जगाम गोकुलं कंसभयेन सूतिकागृहात् ॥ कथं कंसात्कीटतुल्याद्येशस्य भयं मुने ॥ ११ ॥ हरिर्वा गोपवेषेण गोकुले
किं चकार ह ॥ कुतो गोपांगनासाथं विजहार जगत्पतिः ॥ १२ का वा गोपांगना के वा गोपाला बालरूपिणः । का वा यशोदा
को नंदः किं वा पुण्यं चकार ह १३ । कथं राधा पुण्यवती देवी गोकुलवांसिनी ॥ व्रजे वा त्रजकन्या सा बभूव प्रेयसी हरेः१४॥
कथं गोप्यो दुराराध्यं संप्रापुरीश्वरं परम् ॥ कथं ताश्च परित्यज्य जगाम मथुरां पुनः १५॥ भारावतरणं कृत्वा किं विधाय
जगाम सः । कथयस्व महाभाग पुण्यश्रवणकीर्तन ॥ १६ ॥ सुदुर्लभां हरिकथां तरणिं भवसागरे ॥ निषे कभोगनिगडक्लेशच्छेदन
ङ|कर्तनीम् । १७ पापेंधमानां ज्वलदग्निशिखामिव ॥ पुंसां श्रुतवतां कोटिजन्मकिल्बिषनाशिनीम् ॥ १८ ॥
गोलोकवासनी इति पाठान्तरम
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
