पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१२५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तीर्थानां करणैर्विधिबोधितेः । प्रदक्षिणेन भूमेश्च कृत्स्राया एव सप्तधा ॥ २८८ ॥ शरणागतरक्षायामज्ञानां ज्ञानदानतः ॥ देवानां वैष्णवानां च दर्शनेनापि यत्फलम् ॥ २४६ ॥ तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम् ॥ स्तोत्रस्यास्य प्रभावेण जीवन्मुक्तो छु। |भवेन्नरः॥ २४७ ॥ ॥ नारद उवाच ॥ ॥ संप्राप्तं परमाश्चर्यं स्तोत्रं सर्वसुदुर्लभम् । कवचं चापि देव्याश्च संसारविजयं प्रभो । ॥ २४८ ॥ कृतं स्तोत्रं सुयज्ञेन प्राप्तं तदपि दुर्लभम् ॥ श्रुत्वा कृष्णकथां चित्रां त्वत्पादाब्जप्रसादतः ॥ २४९ ॥ अधुना श्रोतुमि |च्छामि यद्रहस्यं च तदद । प्रातश्च नगरं दृष्ट्वा किमूचुर्बह्वा मुने ॥ २६० ॥ ॥ श्रीनारायण उवाच ॥ गतायां तत्र यमि छ|न्यां गते च विश्वकर्मणि । अरुणोदयवेलायां जनाः सर्वे जजागरुः ॥ २५१ ॥ उत्थाय दृङ् नगरं सर्वेभ्योपि विलक्षणम् ॥ ॐ|किमाश्चर्यं किमाश्चर्यमित्यूचुर्मुजवासिनः ॥ २८२ ॥ कांश्चिद्रोपान्केचिदूचुः कुत एतदभूदिदम् ॥ न जाने केन रूपेण को भूमौ प्रभवेदिति ॥ २६३ ॥ बुबुधे मनसा नदी गर्गवाक्यमनुस्मरन् ॥ श्रीहरिच्छया सर्वं जगदेतच्चराचरम् । ॥ २६४ ॥ ते यस्य भूभंगलीलया॥ आविर्भूतं तिरोभूतं तस्यासाध्यं च किं कुतः ॥ २९६ ॥ विवरेष्वेव यस्योम्नां त्रह्मांडान्यखिलानि च ॥ ॐ ईशस्य तन्महाविष्णोः किमसाध्यं हरेरहो ॥ २९६ ॥ ब्रह्मानंतेशधर्माश्च ध्यायंते यत्पदांबुजम् । किमसाध्यं तदीशस्य ॥ २६७ ॥ भ्रामंभ्रामं तन्नगरं दर्शदर्श गृहगृहम्॥ पाठ्पीठे च नामानि सर्वेभ्यो निलयं ददौ ॥ २६८ ॥ कृत्वा अशुभक्षणं नंदो वृषभानश्च कौतुकी । चकार सगणैः सार्द्ध मुदाश्रनिवेशनम् ॥ २९९ ॥ सर्वे वृन्दावनस्थाश्च प्रसन्नवदनेक्षणाः |ऊ|मुदा प्रवेशनं चक्रुः स्वंस्वमाश्रममुत्तमम् ॥ २६० ॥ सर्वे मुमुदिरे गोपाः स्वेस्वे स्थाने मनोहरे ॥ व्लका बालिकाश्चैव चिक्रीझ छ|प्रहर्षिताः ॥ २६१॥ श्रीकृष्णो बलदेवश्च शिभिः सह कौतुकाव । क्रीडां चकार तत्रैव स्थानेस्थाने मनोहरे ॥ २६२ ॥ इत्येवं कथितं सर्वं निर्माणं नगरस्य च ॥ अबलानां वने रासमंडलस्य च नारद ॥ २६३ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे नारायणनार ॐदसंवादे श्रीवृन्दावननगरद्वर्णनंनाम सप्तदशोध्यायः ॥ १७ ॥ ॥ शौनक उवाच ॥ अहो किमद्भुतं सुत रहस्यं सुमनोहरम् ॥४