पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/११९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


दिरे ॥ कौतुकेन च गच्छंती क्रीडार्थं सखिमदिरम् ॥ १२२॥ व्रजं व्रज व्रजश्रेष्ठेत्युक्त्वा लोको जगाम ह ॥ प्रहृष्टमानसो नन्दो जगाम राजमंदिरम् ॥ १२३ ॥ अवरुह्य रथात्तूर्णं विवेश नृपतेः सभाम् ॥ उत्थाय राजा संभाष्य स्वर्णसिंहासनं ददौ ॥ १२e |ङ्क इष्टालापं बहुतरं चकार च परस्परम् । विनयावनतो नन्दः सम्बंधोक्तिं चकार ह ॥ १२६ ॥ नंद उवाच ॥ ॥ शृणु राजेंद्र वक्ष्या |मि विशेषवचनं शुभम् । संबन्धं कुरु कन्याया विशिष्टेन च सांप्रतम् ॥ १२६ ॥ सुरभानुसुतः श्रीमान्वृपभानुर्नजाधिपः नारायणांशो गुणवान्सुन्दरश्च सुपीडितः ॥ १२७ ॥ स्थिरयौवनयुक्तश्च योगी जातिस्मरो युवा ॥ कन्या तेऽयोनिसंभूता यज्ञकुण्ड |समुद्भवा ॥ १२८ ॥ त्रैलोक्यमोहिनी गंता कमलांशा कलावती । स च योग्यस्त्वदुहितुस्तद्योग्या ते च कन्यका ॥ १२९ ॥ विद ग्धाया विदग्धेन संबन्धो गुणवानृप ॥ इत्येवमुक्त्वा नंदस्तु विरराम च संसदि ॥ उवाच तं नृपश्रेष्ठो विनयावनतो मुने । ॥ १३० ॥॥ भनंदन ववाच ॥ संबन्धो हि विधिवशो न मे साध्यो व्रजाधिप ॥ १३१ ॥ प्रजापतिर्योगकर्ता जन्मदाताहमेवरों आ च ॥ का कस्य पत्नी कन्या व वरः को वा ससाधनः ॥ १३२ ॥ कर्मानुरूपफलदः सर्वेषां कारणं विधिः ॥ भवितव्यं कृतं कर्म तदमोघं श्रुतौ श्रुतम् ॥ १३३ ॥ अन्यथा निष्फलं सर्वमनीशस्योद्यमो यथा ॥ वृषभानप्रिया धात्रा लिखिता चेत्सुता मम । ॥ २३४ ॥ पुरा भूतैव को वाहं केनान्येन निवार्यते । इत्येवमुक्त्वा राजेंद्रोविनयानतकंधरः ॥ १३८ ॥ मिष्टान्नं भोजयामास सादरेण च नारद ॥ नृपानुज्ञामुपादाय व्रजराजो व्रजं गतः ॥ १३६ ॥ गत्वा स कथयामास सुरभानस्य संसदि ॥ • सुरभानध यत्नेन नंदनेन च सादरम् ॥ १३७ ॥ संबंधं योजयामास गर्गद्वारा च सत्वरम् ॥ विवाहकाले राजेंद्रो विपुलं यौतकं ददौ । ॥ १३८ ॥ गजरत्नमश्वरत्नं रत्नानि मणिभूषणम् ॥ वृषभानुर्मुदा युक्तः प्राप्य तां च कलावतीम् ॥ १३९ ॥ रेमे सुनिर्जने रम्ये बुबुधे न दिवानिशम् ॥ चक्षुर्निमेषविरहाद्याकुलो स्वामिना विना ॥ १४ ।। व्याकुलो वृषभानश्च क्षणेन च तया विना ॥ जाति स्मरा च सा कन्या मायामानुषरूपिणी ॥ १३१ ॥ जातिस्मरो हरेरंशो वृषभानो मुदान्वितः ॥ ववर्दी च तयोः प्रेम नित्यंनित्यं