पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते
सान्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः॥
आश्लिष्ठौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ
वर्षन्वौ वसुपार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी ।
अङ्गान्यन्वथ मावरश्च परितः शक्रादयोऽब्जाश्रया-
खद्वाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः ॥
इत्थं विष्णुशिवादितत्त्वतनवे श्रीवक्रतुण्डाय हुं-
काराक्षिप्तसमतदैत्यपृतनाव्राताय दीप्तस्विषे ।
धानन्दैकरसावबोधलहरीविश्वस्तसर्वोमये
सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४
सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी-
कोटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम्।
राजन्नीराजनश्रीसुखचरण-
नखद्योतविद्योतमानः
श्रेयः स्थेयः स देयान्मम
विमलदृशो बन्धुरं सिन्धरास्यः ॥१५