पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

तेनैव जाप्रन्मयमप्रमेयं
तमेकदन्तं शरणं व्रजामः ॥१३
जाग्ररखरूपं रजसा विभातं
विलोकित तत्कृपया यदेव ।
तदा विमिन्नं भवत्येकरूपं
तमेकदन्तं शरणं व्रजामः ॥१४
एवं च सृष्ट्वा प्रकृतिस्वभावा-
चदन्तरे त्वं च विभासि नित्यम् ।
बुद्धिप्रदाता गणनाथ एक-
स्तमेकदन्तं शरणं व्रजामः ॥१५
त्वदाज्ञया भानि प्रहाश्च सर्वे
नक्षत्ररूपाणि विभान्ति स्वेवै।
बाधारहीनानि त्वया धृतानि
तमेकदन्तं शरणं व्रजामः ॥१६
त्वदाज्ञया सृष्टिको विधाता
त्वदाज्ञया पालक एवं विष्णुः।