पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ बृहत्स्तोत्ररत्नाकरः॥

[प्रथमभागः]


॥ मङ्गळश्लोकाः ॥

स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् ।
वासरमणिरिव तमसां राशीन्नाशयति विघ्नानाम् ॥१
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये॥ २
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥४
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अफाललोचनः शम्भुः भगवान्बादरायणः ॥५