पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
एकदन्तस्तोत्रम्


आनन्दरूपं समभावसंस्थं
तमेकदन्तं शरणं व्रजाम: ॥९
तदेव विश्वं कृपया तवैव
सम्मूतमाद्यं तमसा विभातम् ।
अनेकरूपं ह्यजमेकभूतं
तमेकदन्तं शरणं व्रजामः ॥१०
ततस्त्वया प्रेरितमेव तेन
सृष्टं सुसूक्ष्मं जगदेवसंस्थम् ।
सवात्मकं श्वेतमनन्तमायं
तमेकदन्तं शरणं प्रजामः ॥११
तदेव स्वप्नं तपसा गणेश
संसिद्धिरूपं विविधं बभूव ।
सदेकरूपं कृपया तवापि
तमेकदन्तं शरणं व्रजाम: ॥१२
सम्प्रेरितं तच्च त्वया हृदिस्थं
यथा सुसृष्टं जगदंशरूपम् ।
१२