पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ एकदन्तस्तोत्रम् ॥

मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।
भृग्वादयश्च मुनय एकदन्तं समाययुः ॥१
प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥२
देवर्षय अधु-
सदात्मरूपं सकलादिभूत-
ममायिनं सोहमचिन्त्यबोधम् ।
अनादिमध्यान्तविहीनमेकं
तमेकदन्तं शरणं ब्रजामः॥३
अनन्तचिद्रूपमयं गणेशं
ह्मभेदभेदादिविहीनमाद्यम् ।
हृदि प्रकाशस्य धरं स्वधीस्थ
तमेकदन्तं शरणं ब्रजामः ॥४
विश्वादिभूतं हृदि योगिनांवै
प्रत्यक्षरूपेण विभान्तमेकम् ।