पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

भक्तप्रिय मदोन्मत्तं वन्देऽहं गणनायकम् ॥७
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥८
गणाष्टकमिदं पुण्यं यः पठेत्सततं नरः।
सिद्धान्ति सर्वकार्याणि विद्यावान्धनवान्भवेत् ॥ ९
। इति गणनायकाष्टकं सम्पूर्णम् ॥