पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ गणनायकाष्टकम् ॥

एकदन्तं महाकायं तप्तकाञ्जनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥१
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुशकलं मौळी वन्देऽहं गणनायकम् ॥२
चित्ररत्नविचित्राचं चित्रमालाविभूषितम् ।
कामरूपधरं देवं वन्देऽहं गणनायकम् ॥३
गजवर्क सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥४
मूषकोत्तममारुह्य देवासुरमहाहवे।
योद्धकामं महावीर्य वन्देऽहं गणनायकम् ॥५
यक्ष किन्नर गन्धर्व सिद्धविद्याधरैस्सदा ।
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥६
अम्बिकाहृदयानन्दं मातृभिः परिवेष्ठितम् ।