पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
गणेशाष्टकम्

यतो दानवाः किन्नरा यक्षसाङ्घाः।
यतश्चारणा बारणा: श्वापदाव।
यतः पक्षिकीटा यतो वीरघम
सदा तं गणेशं नमामो भजामः ।।४
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यता
सम्पदो भक्तसन्तोषिकाः स्युः।
यतो विघ्ननाशो यतः कार्यसिद्धि:
सदा तं गणेशं नमामो भजामः ॥५
यतः पुत्रसम्पद्यतो वाञ्छितार्थो
यतोऽभक्तविघ्नास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव
सदा तं गणेशं नमामो भजामः ॥६
यतोऽनन्तशक्तिः स शेषो बभूव
धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना
सदा तं गणेशं नमामो भजामः ॥७