पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
सङ्कटनाशनगणेशस्तोत्रम्


जपेद्गणपतिस्तोत्रं षभिर्मासै: फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८

इति श्रीनारदपुराणे सङ्कटनाशन नाम गणेशस्तोत्र
॥ सम्पूर्णम् ॥