पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
गणेशमहिमस्तोत्रम्


मुदः पारो नात्रेत्यनुपमपदे दौर्विगलिता
स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥२०
हरेणार्य ध्यातस्त्रिपुरमथने चासुरवधे
गणेशः पार्वत्या बलिविजयकालेऽपि हरिणा ।
विधात्रा संसृष्टादुरगपतिना क्षोणिधरणे
नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ॥ २१
अयं सुप्रासादे सुर इव निजानन्दभुवने
महान् श्रीमानाद्यो लघुतरगृहे रङ्कसदृशः ।
शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे
स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः ॥ २१
अमुध्मिन्सन्तुष्टे गजवदन एवापि विबुधे
ततस्ते सन्तुष्टात्रिभुवनगताः स्युर्बुधगणाः ।
दयालुर्हेरम्बो न च भवति यस्मिंश्च पुरुषे
वृथा सर्व तस्य प्रजननमतः सान्द्रतमसि ॥ २३
वरेण्यो भ्रशुण्डिर्भृगुगुरुकुजा मुद्गलमुखा
ह्यपास्तिद्भक्ता जपहवनपूजास्तुतिपराः।