पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


सशयोत्पत्तिस्थितिलयकरोऽयं प्रमथको
यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥ ८
गकारः कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृसो
णकारः कण्ठाधो जठरसदृशाकार इति च ।
अघोभावः कठ्यां चरण इति हीशोस्य च तनु-
र्विभावीत्थं नाम त्रिभुवनसमं भूर्भुवः सुवः॥ ९
गणेशेति व्यात्मकमपि वरं नाम सुखद
सकृत्प्रोच्चैरुचारितमिति नृभिः पावनकरम् ।
गणेशस्यैकत्य प्रतिजपकरस्यास सुकृतं
न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः॥
गणेशेत्याह्वं यः प्रवदति मुहुस्तस्यं पुरतः
प्रपश्यस्तद्वकं स्वयमपि गणस्तिष्ठति तदा ।
स्वरूपस्य ज्ञानं त्वमुक इति नान्नास्य भवति
प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥ ११
गणेशो विश्वेऽस्मिनिस्थत इह च विश्वं गणपतौ
गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम् ।