पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६९
वाक्यवृत्तिः

मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे।
मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते।।४७
तत्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।
सोहमित्यादिवाक्यस्यपदयोरिव नापरा ॥४८
अहंब्रह्मेति वाक्यार्थबोधो यावढी भवेत् ।
शमादिसहितास्तावद्भ्यसेच्छ्रवणादिकम् ।।४९
श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् ।
निरस्ताशेषसंसारनिदान: पुरुषस्तदा ॥५०
विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः ।
विमुक्तकर्मनिगडः सद्य एव विमुच्यते ॥
प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत् ।
किञ्चित्कालमनारब्धकर्मबन्धस्य संक्षये ॥ ५२
निरस्तातिशयानादं वैष्णवं परमं पदम् ।
पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥
इति श्रीमत्परमहंस परिव्राजकाचार्यवयं श्रीमच्छङ्कराचार्य-
विरचिता वाक्यवृत्तिः॥



: Printed at the Vavilla' Press, . .Madras-21-1963..