पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

प्रत्यग्बोधो य आभाति सोद्वयानन्दलक्षणः ।
अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः॥
३९
इत्थमन्योन्यतादात्म्य प्रतिपत्तिर्यदा भवेत् ।
अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ।।४०
तदर्थस्य च पारोक्ष्यं यद्येतं किं ततः शृणु ।
पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥४१
तत्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने ।
लक्ष्यौ तत्वं पदार्थों द्वावुपादाय प्रवर्तते ॥४३
हित्वाऽऽदौ शबली वांच्यौ वाक्यं वाक्यार्थबोधने ।
यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥४४॥
 आलम्बनतयाऽभाति योऽस्मात्प्रत्ययशब्दयोः।
अन्तकरणसम्भिन्नबोधस्सत्वं पदाभिदः॥ ४४
मायोपाधिजगद्योनिस्सर्वज्ञत्वादिलक्षणः ।
पारोक्ष्यशबलस्सत्याद्यात्मक स्तत्पदाभिध
प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ।
विरुध्यते यतस्तस्मालक्षणा सम्प्रवर्तते । ४.६