पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६७
वाक्यवृत्तिः


सर्वाज्ञत्वं परेशत्वं तथा सम्पूर्णशक्तिता।
वेदैस्समर्थते यस्य तद्ब्रह्मेत्यवधारय ।। ३१
यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।
मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ।।३२
यदानन्त्यं प्रतिज्ञाय श्रुतिस्तसिद्धये जगौ
तत्कार्यवं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ।।३३
विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः ।
समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ।।
जीवात्मना प्रवेशश्च नयन्तृत्वं च तान्प्रति ।
श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५
कर्मणां फलदातृत्वं यस्यैव श्रयते श्रुतौ ।
जीवनाहेतुकर्तृत्वं तद्ब्रह्मेत्यवधारयः ॥ .
तत्वंपदार्थो निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना ।
तादात्म्यमत्र वाक्यार्थः तयोरेव पदार्थयोः॥ ३७
संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः ।
अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८