पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

अहं साक्षीति यो विद्यात् विविच्यैवं पुन: पुनः ।
स एव मुक्तोऽसौ विद्वान् इति...॥४८
नाहं माया न तत्कार्यं न साक्षी परमोऽस्म्यहम् ।
इति निस्संशयज्ञानात् मुक्तिर्वे...॥४९
नाऽहं सर्व महं सर्वं मयि सर्वमिति स्फुटम् ।
 ज्ञाते तत्वे कुतो दुःख मिति ...॥ ५०
देहादिपञ्चकोशस्था या सत्ता प्रतिभासते।
सा सत्ताssत्मा न सन्देह इति ... ॥५१
देहादिपञ्चकोशस्था या स्फूर्ति रनुभूयते ।
सा स्फूर्तिरात्मा नैवाऽन्य दिति ....॥५२
देहादिपञ्चकोशस्था या प्रीतिरनुभूयते ।
सा प्रीतिरात्मा कूटस्थः इति...॥५३
व्योमादिपञ्चभूतस्था यासत्ता भासते नृणाम् ।
सा सत्ता परमं ब्रह्म इति...॥५४
व्योमादिपञ्चभूतस्था या चिदेकाऽनुभूयते ।
सा चिदेव परं ब्रह्म इति ....॥५५