पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

साकारं च निराकारं निर्गुणं च गुणात्मकम् ।
तत्त्वं तत्परमं ब्रह्म इति ...॥३२
द्विजत्वं विध्यनुष्ठानात् विप्रत्वं वेदपाठतः ।
ब्राह्मण्यं ब्रह्मविज्ञानात् इति .....॥३३
सर्वात्मना स्थितं ब्रह्म सर्वं ब्रह्मात्मना स्थितम् ।
न कार्यं कारणाद्भिन्न मिति ... ॥ ३४
सत्तास्फुरणसौख्यानि भासन्ते सर्ववस्तुषु ।
तस्माद्ब्रह्ममयं सर्व मिति ... ॥३५
अवस्थात्रितयं यस्य क्रीडाभूमितया स्थितम् ।
तदेव ब्रह्म जानीयात् इति ...॥३६
यन्नाऽऽदौ यश्च नाऽस्त्यन्ते तन्मध्ये भातमप्यसत् ।
अतो मिथ्या जगत्सर्वमिति.....॥३७
यदस्त्यादौ यदस्त्यन्ते यन्मध्ये भाति तत्स्वयम् ।
प्रौकमिदं सत्य मिति ... ॥३८
पुरुषार्थत्रयाविष्टाः पुरुषाः पशवो ध्रुवम् ।
मोक्षार्थी पुरुषः श्रेष्ठः इति.....॥ ३९