पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

वामे भूधरजा पुरश्च वृषराट् पश्चान्मुनिर्जैमिनिः
श्रीमद्व्यासपतञ्जलीत्युभयतः वाय्वादिकोणेषु च |
श्रीमतिल्लवनैकवासिमखिनः ब्रह्मादिवृन्दारकाः मध्ये
स्वर्णसभापतिर्विजयते ह्रुत्पुण्डरीके पुरे ॥

॥ श्रीनटेशार्पणमस्तु॥
॥शिवं भूयात्.॥

॥ श्री नटेशपश्चरत्नम् ॥
श्रीमच्चिदम्बरनटात् नटराजराजात्
विद्याधिपात् विविधमङ्गलदानशौण्डात् ।
पूर्णेन्दुसुन्दरमुखात् द्विजराजचूडात्
भर्गात्परं किमपि तत्वमहं न जाने ।
डक्काविभूषितकरात् विषनीलकण्ठात्
फुल्लारविन्दनयनात् फणिराजवन्द्यात् ।
व्याघ्रांघ्रिपूज्यचरणात् शिवकुञ्चिताङ्ग्रेः
शम्भोः परं किमपि तत्वमहं न जाने॥