पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पादुकाष्टकम् ५२३

पङ्कजान्तरखेलनं निजशुद्धसख्यमगोचरं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ४ पञ्च पञ्च हृषीकदेहमनश्चतुष्क परस्परं पञ्चभूतनिकामषट्कसमीरशब्दमभीकरम् । पञ्चकोशगुणत्रयादिसमस्तधर्मविलक्षणं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ५ पञ्चमुद्रसुलक्ष्यदर्शनभावमात्रनिरूपणं विद्युदादिदगद्धगितविनोदकान्ति विवर्तनम् । चिन्मयत्रयवर्तिनं सदसद्विवेकममायिकं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ६ पञ्चवर्णशुकं समस्तरुचिर्विचित्रविचारिणं चन्द्रसूर्यचिदग्निमण्डलमण्डितं घनचिन्मयम् । चित्कलापरिपूर्णमण्डलचित्समाधिनिरीक्षितं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ७ स्थूलसूक्ष्मसकारणान्तरखेलनं परिपालनं विश्वतैजसप्राज्ञचेतसमन्तरात्मनिजस्थितिम् ।