पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ पादुकाष्टकम् ॥

श्रीसमञ्चितमव्ययं परमप्रकाशमगोचरं भेदवर्जितमप्रमेयमनन्तमुझ्झितकल्मषम् । निर्मलं निगमान्तमद्भुतमप्यतर्क्यमनुत्तमं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ १ नादबिन्दुकलात्मकं दशनादवेदविनोदितं मन्त्रराजपराजितं निजमण्डलान्तरभासितम् । पञ्चवर्णमखण्डमद्भुतमादिकारणमच्युतं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ २ हन्तचारुमखण्डनादमनेकवर्णमरूपकं शब्दजालमयं चराचरजन्तुदेहनिरासिनम् । चक्रराजमनाहतोद्भवंमेघवर्णमतत्परं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ३ बुद्धिरूपमबद्धकं त्रिदैवकूटस्थनिवासिनं निश्चयं निरतप्रकाशमनेकसद्रुचिरूपकम् ।