पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ मनीषापञ्चकम् ॥

सत्याचार्यस्य गमने कदाचिन्मुक्तिदायकम् । काशीक्षेत्रं प्रति सह गौर्या मार्गे तु शङ्करम् ॥ १ अन्त्यवेषधरं दृष्ट्वा गच्छगच्छेति चाब्रवीत् । शङ्करस्सोऽपि चण्डालः तं पुनः प्राह शङ्करम् ॥ २ अन्नमयादन्नमयमथवाचैतन्यमेव चैतन्यात् । यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ॥ प्रत्यग्वस्तुनि निस्तरङ्गसहजानन्दावबोधाम्बुधौ विप्रोऽयं श्वपचोऽयमित्यपि महान् कोऽयं विभेद- भ्रम: । किंगङ्गाम्बुनि बिम्बितेऽम्बरमणौ चण्डालवीधी- पयः पूरेवाऽन्तरमस्ति काश्चनघटीमृत्कुम्भयोर्वाम्बरे ॥ जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते याब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी । सैवाहं न च दृश्यवस्त्विति दृढमज्ञापि यस्यास्तिचे. च्चण्डालोऽस्तु सतु द्विजोऽस्तु गुरुरित्येषामनीषामम ॥