पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ यतिपञ्चकम् ॥

वेदान्तवाक्येषु सदा रमन्तः भिक्षान्नमात्रेणच तुष्टिमन्तः । विशोकमन्त:करणे रमन्त: कौपीन- वन्तः खलु भाग्यवन्तः ॥ १ मूलं तरोः केवल माश्रयन्तः पाणिद्वयं भोक्तुम- मन्त्रयन्तः । श्रियं च कन्था मिव कुत्सयन्तः कौपीन- वन्तः खलु भाग्यवन्तः ॥ २ देहादिभावं परिमार्जयन्तः आत्मानमात्मन्यव- लोकयन्तः । नान्तं न मध्यं न बहि स्स्मरन्तः कौपीन- वन्तः खलु भाग्यवन्तः ॥ ३ स्वानन्दभावे परितुष्टिमन्तः संशान्तसर्वेन्द्रिय- दृष्टिमन्तः । अहर्निशं ब्रह्मणि ये रमन्तः कौपीन- वन्तः खलु भाग्यवन्तः ॥ ४ पञ्चाक्षरं पावन मुच्चरन्तः पतिं पशूनां हृदिभाव- यन्तः । भिक्षाशना दिक्षु परिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ कौपीनपश्चरत्नस्य मननं याति यो नरः । विरक्तिं धर्मविज्ञानं लभते नात्र संशयः ॥ ६

॥ इति श्रीशङ्करभगवत्पादविरचितं यतिपञ्चकम् ॥