पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

यद्यल्लीनं तदिदमखिलं सच्चिदानन्दरूपं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ सत्यं सत्यं परम ममृतं शान्ति कल्याणहेतुं मायारण्ये दहन ममलं शान्तिनिर्वाणदीपं । तेजोराशिं निगमसदनं व्यासपुत्राष्टकं य: प्रातःकाले पठति सहसा याति निर्वाणमार्गम् ॥ ९

॥ इति शुकाष्टकम् ॥