पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शुकाष्टकम् ५१५

एवं सर्वं समरसगतं त्वंपदं तत्पदार्थे निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ कश्चात्राहं किमपि च भवान् कोऽयमत्र प्रपञ्च: स्वान्तर्वेद्ये गगनसदृशे पूर्णतत्वप्रकाशे । आनन्दाख्ये समरसघने बाह्य अन्तर्विलीने निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ दृष्ट्वा सर्वं परमममृतं स्वप्रकाशस्वरूपं बुध्वात्मानं विमल मचलं सच्चिदानन्दरूपं । ब्रह्माधारं सकलजगतां साक्षिणं निर्विशेषं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ कार्याकार्यं किमपि चरतो नैव कर्तृत्वमस्ति जीवन्मुक्तिस्स्थितिरिह गता दुग्धवस्त्रावभासा । एवं देहे प्रचलिततया दृश्यमान स्स मुक्तो निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ यस्मिन् विश्वं सकलभुवनं सैन्धवं सिन्धुमध्ये पृथ्व्यम्ब्वग्निश्वसनगगनं जीवभावक्रमेण ।