पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

।। शुकाष्टकम् ॥

भेदाभेदौ सपदि गळितौ पुण्यपापे विशीर्णे मायामोहौ क्षयमधिगतौ नष्टसन्देहवृत्ती । शब्दातीतं त्रिगुणरहितं प्राप्य तत्वावबोधं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ यस्स्वात्मानं सकलवपुषा मेकमन्तर्बहिस्स्थं दृष्ट्वा पूर्णं खमिव सततं सर्वभाण्डस्थमेकं । नान्यत्कार्यं किमपि च तथा कारणाद्भिन्नरूपं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ यद्वन्नद्योऽम्बुधि मधिगता स्सागरत्वं प्रपन्ना: तद्द्व्ज्जीवा स्समरसगताः चित्स्वरूपं प्रपन्नाः । वाचातीते समरसघने सच्चिदानन्दरूपे निस्त्रैगुण्ये पथि विचरतों को विधिः को निषेधः ॥ हेम्नः कार्यं हुतवहगतं हेमतामेति तद्वत् क्षीरं क्षीरे समरसगतं तोयमेवाम्बुमध्ये ।