पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ विज्ञाननौकाष्टकम् ॥

तपोयज्ञदानादिभिश्शुद्धबुद्धिर्विरक्तोग्रजातिः परे तुच्छबुद्ध्या । परित्यज्य सर्वं यदाप्नोति तत्वं परं- ब्रह्मनित्यं तदेवाहमस्मि ॥ १

 दयाळुं गुरुं ब्रह्मनिष्ठं प्रशान्तं समाराध्य भक्त्त्या

विचार्य स्वरूपम् । यदाप्नोति तत्त्वं निधिध्यस्य विद्वान् परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २

 यदानन्दरूपप्रकाशस्वरूपं निरस्तप्रपञ्चं परिच्छेद .

शून्यम् । अहं ब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्मनित्यं तदेवाहमस्मि ॥ ३

 यदज्ञानतो भाति विश्वं समस्तं प्रणष्टं च सद्यो-

यदात्मप्रबोधे । मनोवागतीतं विशुद्धं विमुक्तं परं. ब्रह्म नित्यं तदेवाहमस्मि ॥ ४

 अनन्तं विभुं निर्विकल्पं निरीहं शिवं सङ्गहीनं

यदोङ्कारगम्यम् । निराकारमत्युज्ज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५